________________
श्रीप्रवचनपरीक्षा ४विश्रामे | ॥२६७॥
खरतरनामत्रिक
'अथेति मूलोत्सूत्रप्रथमाचार्ययोर्वक्तव्यतानन्तरं चामुण्डिकचौष्ट्रिकश्च खरतरश्चेति नामानि 'त्रीणि त्रिसंख्याकानि जिनदत्ताद् यथा जातानि अमुकवर्षेऽमुकहेतुना जातानि तथैव,नान्यथा,चकारः पादपूरणे, शृणुत भो लोकाः !, तन्नामोत्पत्तिजिज्ञासया श्रवणगोचरीकुरुताहं दर्शयामीतिगाथार्थः ॥३३॥ अथ प्रथमं चामुण्डिकनाम्न उत्पत्तिमाह
तेणेविगुत्तरेहिं बारससयवरिसएहिं चामुंडा। आराहिआ य तेणं चामुंडिअसन्निओ जाओ॥३४॥ तेनैव-जिनदत्तेनैवैकोत्तराधिकद्वादशशतवर्षे १२०१ निजमतवृद्धये 'चामुण्डा'चण्डिकापराभिधाना मिथ्यादृग्देवताविशेष आराधिता तेन हेतुभूतेन चामुण्डिक इति संज्ञा-नाम जाताऽस्येति चामुण्डिकसंज्ञितो जातः-उत्पन्नः, तथाविधख्यातिमानित्यर्थः,
अयं भावः-चित्रकूटे यस्या मठे जिनवल्लभो वर्षारात्रं स्थित आसीत् , तत्रैव स्थित्वा जिनदत्तेन सा आराधिता निजमतवृद्धये, यथा | आञ्चलिकमताकर्षकेण नरसिंहोपाध्यायेन चम्पकदुर्गे मिथ्यादृग् कालिका देवी निजमतवृद्धये आराधिता तथाऽयं चामुण्डिकाराध| नाच्चामुण्डिक इति सान्वर्थ नाम जिनदत्तादेव प्रवृत्तमितिगाथार्थः ॥३४॥ अथ सार्द्धगाथाद्वयेनोष्ट्रिकनाम्न उत्पत्तिमाह___ अह अण्णया कयाई रुहिरं दट्टण जिणहरे रुट्ठो। इत्थीणं पच्छित्तं देइ जिणपूअपडिसेहं ॥३५॥
संघुत्तिभयपलाणो पट्टणओ उद्दवाहणारूढो । पत्तो जावालपुरं जणकहणे भणइ बिजाए ॥३६॥ लोएणं सो भणिओ नामेणं उहिउत्ति बिअनामं। तन्नामसवणरुसिओ लोएहि मिसिमिसेमाणो ॥३७॥ जाओ तामसवयणो भणिओ लोएण खरयरा पयडी । तेणामरिसवसेणं खरयरसन्नत्तिपडिवण्णं ॥३८॥ 'अथेति प्राग्वत् अन्यदा-एकदा प्रस्तावे जिनदत्तेन जिनभवने रुधिरं पतितं दृष्ट्वा रुष्टः सन् अद्यप्रभृति स्त्रीमिर्जिनप्रतिमा न
PAHRAININDI
alHARASHNPATISHERPIRIT JilmiBIPASAILI SUPAHINIRUPIAn
। ॥२६७॥
i mHII