SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ खरतरनामत्रिक श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६६॥ देशेन त्रोटको भविष्यतीति प्राक् प्रदर्शितमिति 'भवितव्यतानुचेष्टा' भवितव्यतानुसारेण चेष्टा भवितव्यतानुचेष्टा लिंग-प्रागुक्तफलसूचकम् अतिमुक्तकोदाहरणाद् , यथाऽतिमुक्तकेन श्रीमहावीरशिष्येणासाकीना नौस्तरतीति वदता जले निजपानं प्रवाहितं, तया तद्भवमोक्षगमने लिङ्गं सूचितमितिगाथार्थः ॥३०॥ अथातिदेशोपसंहारमाह इचे जिणवल्लहजिणदत्ताणं चरित्तमिह वच्चं । गणहरसढसउत्तं वण्णयवज्जति तं भणिअं॥३१॥ इत्येवं प्रागुक्तप्रकारेण जिनवल्लभजिनदत्तयोः स्वरूपं-चरित्रं गणधरसार्द्धशतकोक्तं, वर्णनं त्वयथार्थमपि भवतीतिकृत्वा वर्णकवर्जमिह प्रकरणे वाच्यं वक्तव्यं भवतीति तद्भणितमितिगाथार्थः ॥३१॥ इतिगाथादशकेन खरतरपट्टधरपरम्परोपहास्यहेतुरिति दर्शितं ॥ अथ खरतरमताकर्षको जिनदत्ताचार्यः कथमित्याहजिणदत्ता पउवण्णो समुदाओ अज जाव अच्छिन्नो । संजाओ तं पढमो आयरिओ नामजिणदत्तो ॥३२॥ जिनवल्लभाद्विधिसध: प्रवृत्तोऽपि साध्वीनाम्ना विकलस्त्रिविध एवासीत् ,जिनदत्तात्तु चतुर्वर्णः, कियत्कालानन्तरं साध्वीवेषार्पणेन साध्वीसंयुक्तो जातः-संपन्नः समवायो जिनवल्लभस्थापितो विधिसङ्घनाम्नेति,एवंविधः समद्य यावदच्छिन्नो वर्तते, तेन कारणेन चतुर्वर्णात्मीभूतस्य विधिसंघस्य प्रथमः-आद्य आचार्यों नाम्ना जिनदत्तो नामजिनदत्तः, खरतरमताकर्षको जिनदत्ताचार्य इति मूलाचार्यः प्रदर्शित इतिगाथार्थः ॥३२॥ इत्युद्दिष्टयोमलोत्सूत्रप्रथमाचार्ययोर्वक्तव्यता प्रदर्शिता, अथ खरतरमते नाम्ना-| मुत्पत्तिं दर्शयन्नाहअह चामुंडिअउअट्टिखरयरनामाई तिण्णि जिणदत्ता । जह जायाइं तहेव य समासओ मुणह दंसेमि॥३३॥ ॥२६६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy