________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६५॥
जिनवल्लभजिनदत्त| वृत्तचर्चा
KalathimuTREmaiI JOIRALATHIRAINRIMAHARITRA ADHIKARISO
ma maintailurammam
NILIMPRARIALA
एतदप्यसंभवि जगद्विलक्षणं संभूतमिति, अयं भावः-'अपुत्रस्य गतिर्नास्तीति वचः श्रुत्वा अहो जिनवल्लभोऽपत्यरहितो मृतो विगतिभाग् मा भवत्विति तद्भक्त्युल्लसितमानसः स्वयं तदपत्यीभूय जिनवल्लभं सुगति प्रापितवान् जिनदत्त इत्युपहास्यमितिगाथार्थः ॥२८॥ अथ खरतरसमुदायमात्रस्यापि लोके हास्यास्पदत्वं दर्शयति
जीवंतजणयजणिआवच्चाई हंति एस जगवट्टो । खरयरनामावच्चं तु उग्गकिरिअंति विवरीअं ॥२९॥ 'जीवजनकजनितापत्यानि' जीवद्भिर्जनकै नितान्यपत्यानि जीवजनकजनितापत्यानि भवन्ति एष जगन्मागों-जगत्स्थितिः, 'खरतरनामापत्यं तु खरतर इति नाम यस्येति, खरतरमात्रग्रहणं, तद्रूपं यदपत्यं तत्तूग्रक्रियमिति तदीयं वचस्तदनुसारेणैव संभाव्यते इत्यर्था बोध्यं 'विपरीतं' विपर्ययहेतुकं,मृतजनकजनितमित्यर्थः,अयं भावः-सं० ११३५ वर्षे कचित् ११३९ वर्षे दिवं गतः श्रीअभयदेवमूरिः, जिनवल्लभस्तु सं. ११६७ वर्षे तत्पधरः संपन्नः, (तस्मिन्नेव च दिवं गतः) ततोऽपि वर्षद्वयेऽतिक्रान्ते | सोमचन्द्रो जिनदत्तनाम्नाऽऽचार्याभूय तत्पट्टे जातः, ततश्च खरतरनाम्ना मतप्रवृत्तिरिति मृतजनकात्समुत्पन्नं खरतरनामकमपत्यमित्युपहासस्थानं लोकानामिति गाथार्थः ।।२९।। अथ जिनवल्लभजिनदत्तयोस्तथाविधभविष्यतामूचिका चेष्टामाह -
सप्पाकरिसिणिविजालाहग्गयखित्ततोडणं पढमं । भविअन्वयाणुचिट्ठा लिंगं अइमुत्तयाहरणा ॥३०॥
जिनवल्लभेन बाल्यावस्थायां सर्पाकर्षिणी विद्या तन्मोचनी च टिप्पनकलिखिता प्राप्ता तस्याःभाविफलं-सर्पतुल्यानामनन्त| संसारभाजां दुष्टाशयवतां मनुजानामाकर्षणं-स्वायत्ततां करिष्यति, या च सर्पमोचिनी तस्याः फलं-निरपत्य एव परलोकं यास्यतीति सूचितं, यतस्तेनैव ते मोचिता इति लिखितमस्ति, जिनदत्तेनोद्गतक्षेत्रं त्रोटितं, तत्फलं-सम्यक्त्वाकुलितस्य सङ्घक्षेत्रस्य
AIMHARINIRUITMEISHA