________________
AN
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥२६३॥
श्रीअभयसूर्यादिमिः संबन्धघटना
| कैश्चिदाचार्यस्तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाति स धर्म त्यजति,न गणस्थिति, जिनाज्ञाननुपालनात् ,तीर्थकरोपदेशो ह्येवं-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमः, यस्तु ददाति म द्वितीयः,यस्त्वयोग्येभ्यस्तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति" श्रीस्थानाङ्गवृत्ताविति गाथार्थः ॥२३॥ अथ गच्छा|न्तरीयदिग्बन्धेन शिष्यादिव्यवहारो न स्यात् तत्कथमिति ज्ञापनाय गाथामाह
तेणं पज्जोसवणाकप्पंमि थिरावलीइ भणिआई। साहाकुलपमुहाई नामेहिं नेव दीसंति ॥२४॥ | येन कारणेन गच्छान्तरीयदिग्बन्धेनात्मीयसंवन्धि शिष्यादि न स्यात् तेनैव कारणेन पर्युषणाकल्पे स्थविरावल्यां शाखाकुलप्रमुखानि
भणितानि यानि तानि नाममिः-यथोक्ताभिधानैर्न दृश्यन्ते, अयं भावः-जिनवल्लभवत् संतानरहिता ये परलोकं गतास्तत्कृत| दिग्बन्धादिविकलास्तत्संताना भवितुं नार्हन्त्यतो व्युच्छिन्नसंतानास्तेऽभूवन् ,ततः कथं तेषां नामभिस्ते लभ्यन्ते ?,न पुनः साक्षाद | दृश्यन्त इतिगाथार्थः ॥२४॥ अथ प्रकृते योजयति
जिणदत्तदिसाबंधो न कओ जिणवल्लहेण तस्सावि । न कओऽभयदेवेणं कहमण्णुपणंपि संबंधो॥२५॥
'जिनदत्तदिग्बन्धः' जिनदत्तस्य सोमचन्द्रापरमूलकस्य दिग्बन्धः जिनवल्लभेन न कृतः,तस्यापि-जितवल्लभस्याप्यभयदेवेन श्रीअभयदेवसूरिणा न कृतः, एवं च सति कथमन्योऽन्यमपि-परस्परमपि संवन्धः-गुरुशिष्यभावलक्षणः स्यात् ?,न कथमपीतिगाथार्थः ॥२५॥ अथोक्तानां त्रयाणामपि संबन्धाभावे दृष्टान्तपुरस्सरमाश्चर्यमाह
40
|॥२६३३॥