SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६॥ श्रीअभयसूर्यादिमिः संबन्धघटना जिणवल्लहजिणदत्तायरिअपयं जारगम्भसारित्थं । सीमंतसमं पुत्थय लिहणं को कुणइ तस्सावि? ॥२०॥ जिनवल्लभजिनदत्तयोराचार्यपदं जारगर्भसदृक्षं,तस्यापि पट्टस्य सीमन्तसमं पुस्तकलिखनं-गणधरसार्द्धशतकादिग्रन्थरचनया पुस्तके लिखनं कः करोति?,न कोऽपि करोतीत्यर्थः, यत्तु खरतरेण कृतं तत्सान्वर्थनामत्वाद्युक्तमेवेत्यक्षरार्थः। भावार्थस्त्वयं-चैत्यवासिशिष्यत्वेन न गच्छसम्मतो भविष्यतीतिकृत्वा श्रीअभयदेवमूरिणा नाचार्यपदं दत्तम् , अन्त्यसमये प्रसन्नचन्द्राचार्यस्योक्तं| यन्मत्पट्टे जिनवल्लभः स्थाप्यस्तेनाप्यन्त्यसमये देवभद्राचार्यः, तेन च जिनवल्लभकृतसमुदायसाक्षिकं चित्रकूटे गत्वाऽऽचार्यपदं कृतं, श्रीअभयदेवमूरिणा च स्वपट्टे श्रीवर्द्धमानाचार्यः स्थापित इत्यादि जिनवल्लभपदस्थापनस्वरूपं गणधरसार्द्धशतके लिखितं, तच्च प्राग् तत्संबन्धव्यतिकरेऽत्रेव दर्शितम् , एवं जिनदत्तस्यापि व्यतिकरः प्राग् प्रदर्शितो बोध्यः, एवं तयोः पदं विचार्यमाणं जारगर्भ इवापन, जारगर्भस्य च सीमन्तकरणं न केनापि श्रुतं दृष्टं वा?, तद्वदेतादृशो व्यतिकरः पुस्तके लेखनानोऽपि खरतरेणाविमृश्य लिखितः, नह्येवंविधव्यतिकरः पदस्य दातुरनुज्ञातुः उपादातुर्वा गौरवकरः, किंतु महालजाकरः, नचैवं तदीयसमुदायस्थापि गौरवमिति सूक्ष्मधिया पर्यालोच्यमितिगाथार्थः। २०।। अथ जारगर्भसादृश्यज्ञापनाय दिशमाह पवजाउट्ठावणुवहाणसुण्णोवि चिइनिवासीवि । सिद्वंतपारगामी सूरीवि विगोवणुत्तीए ॥२१॥ जिनवल्लभस्तावत् क्रीतकृतोऽपि चैत्यवास्यपि प्रव्रज्योपस्थानोपधानशून्यः,नहि जिनवल्लभेन कस्यापि संदिग्रस्य पार्श्वे प्रव्रज्या गृहीता,तदभावाच न केनाप्युपस्थापितः,उपस्थापनाऽभावानोपधानमपि,आवश्यकादिश्रुताराधनतपोविशेषयोगानुष्ठानाद्यपिन जातम् , एतैः शून्यो-रहितः सिद्धान्तपारगामी संविनश्रीअभयदेवमूरिपार्श्वे संपन्नः, तथाभृतोऽपि रहः कर्णजापपरम्परया मूरिरपि, सोऽपि Howintelliti H illIRI E HALISAHIRAININGHIROHINILAMISHPARAMITRAPARIm tamulyantitutill ॥२६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy