SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६०॥ जिनवल्लभजिनदत्तविचारणा नां यान्यशुभानि कर्माणि तेषां कर्मणामुदयेन,प्राग्जन्मसंबन्धिक्लिष्टकर्मोदयमन्तरेणोत्सूत्रभाष्युपदेशविषयो न भवतीति गाथार्थः ॥१७॥ अथ तेन भ्रमता किं विहितमित्याहतेण कओ विहिसंघो अप्पविओ सावओ अतिविहो वा । निरवच्चे परलोगं गयंमि जा दुन्नि वरिसाई ॥१८॥ | तेन-जिनवल्लभेन नाम्ना विधिसङ्घः कृतः, स्ववचोनियंत्रितकतिपयजनसमुदायो विधिसङ्घनाम्ना व्यवस्थापितः, सच | सङ्घः कीदृशः ?-'आत्मद्वितीयः श्रापकः' आत्मैव द्वितीयोः यत्र स श्रावकः-श्रावकजातीयः,साधुश्रावकलक्षणो द्विविधः सङ्|घ इत्यर्थः, साधारणप्रमुखाः श्रावका अनेन स्वायत्तीकृता इतिगणधरसार्द्धशतकेभिहिताः, परं श्राविका नोक्ता, साध्व्यश्च दीक्षिता एव नासन्, ताश्च दूरे आस्तां, साधुरपि कश्चिन्न दीक्षितः, अथवा त्रिविधः, काश्चन श्राविकाः श्रावकायत्ताः संभाव्यमाना अपि इतिकृत्वा त्रिविध इत्यर्थः, निरपत्ये अपत्यरहिते परलोकं गते जिनवल्लभे द्वे वर्षे यावद् गते, वर्षद्वयं यावत्साधुरहित एव विधिसङ्घ आसीदितिगाथार्थः ॥१८॥ अथैवंविधन सङ्घन किं कृतमित्याह तेण पलोअंतेणं लहिओ एगो अ सोमचंदमुणी । अण्णुपणं वयबंध काऊणं कारिओ सूरी ॥१९॥ तेन सधेन 'प्रलोकयता' अस्मत्समुदायो निःखामिकोऽतः कश्चित्स्वामी कर्त्तव्य इति धिया प्रत्यहमन्वेषयता वर्षद्वयेऽतिक्रान्ते | एकः सोमचन्द्रनामा मुनिर्लब्धः, अन्योऽन्यं वचोवन्धं व्रतबन्धं वा कृत्वा रहोवृत्त्या वस्वाभिरुच्या एकीभूय तेन सधेन मूरिः | कारितः, तस्य च नाम जिनदत्तसूरिरितिकृतमितिगाथार्थः ॥१९॥ अथ जिनवल्लभजिनदत्तयोराचार्यपदविधिः गणधरसार्द्धशतकादुपलभ्यानः कीदृश इति ज्ञापयन्नाह HINilITS MANIPRITA MARATHI RITHullHAIRAIMILAIKAHANI ॥२६०|| P
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy