SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥२५५॥ |र्यीभूय गोत्रान्तरे कन्येव देवभद्रेण दीयमानः परगृहमण्डनं जातः, परगृहमण्डनत्वं चास्य प्रतिज्ञापूर्वकमेव, यतो देवभद्राचार्येणैकान्ते भणितः पण्डितसोमचन्द्रगणिर्यदुतास्मिन् दिने युष्मदीयं पदस्थापनालयं परिभावितमस्ति, पश्चात् सोमवन्द्रेणोक्तं - यद्युष्माकं सम्मतं तद्युक्तं, परं यद्यस्मिन् लग्ने स्थापयिष्यते तदा न चिराय जीवितं भविष्यति, षण्णां दिनानामुपरि शनैश्वरवारे यल्लनं भ| विष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रमणसङ्घः श्रीजिनवल्लभमूरिवचनेन प्रभूतो भविष्यति चिरंजीवि त्वं चेत्यादि जिनदत्तेन प्रत्यपादि, न पुनचैत्यवास्यादिकुसङ्गं परित्यज्य संविप्रभावितो भविष्यति, न चास्मादीयगुरूणां श्रीजिनेश्वरसूरिश्रीअभयदेवसूरिप्रभृतीनां वचनेन भूयान् जनो भविष्यतीत्यादि, किंच - बहवश्च तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीप - र्णपर्णाक्षाः साक्षादिव मकरध्वजा गुर्जरत्रासंयताः अभ्युद्यताः आसन् परं योग्यतां गुरव एव विदन्तीत्यादिहीलनावाक्यैवर्णिता ये संयतास्ते संविशा असंविना वा १, नाद्यः, संविधानां तथाविधहीलनास्थाने मिलनस्याप्यसंभवात् मिलने प्रयोजनाभावात् षट्कल्याणकवादिपदाभिलाषासंभवाच्च, किंच-लम्बकर्णा इत्यादि वचनं भाण्डचेष्टितवचनवदनार्यवचनमेव, संविग्नेषु प्रयुज्यमानमनन्तसंसारिताहेतुः, किंच- संयताः किं कूर्च्चपुरीयाः चन्द्रगच्छीया वा १, नाद्यः, जिनवल्लभेनामुकस्य प्रव्रज्या दत्तेति वार्तागन्धस्याप्यननुभूतेः, अत एव जिनवल्लभकाले विधिसंघो द्विविधस्त्रिविधो वेत्यग्रे वक्ष्यते, चातुर्विध्यं तु जिनदत्तादेवेतिप्रसङ्गतो बोध्यम्, अथ चन्द्रगच्छीया इति विकल्पे विचार्यमाणे देवभद्राचार्य संबन्धिन एव संभवन्ति, न पुनरभयदेवपट्टधरश्रीवर्द्धमानाचार्यप्रभृतिसंबन्धिनः तेषां तत्र प्रयोजनाभावात्, ये तु देवभद्रसंबन्धिनस्ते ज्ञातव्यतिकराः सङ्घपूजाद्यर्थमेव मिलन्ति, कथं ते पदप्रलिप्सवः स्युः १, नहि लोकेऽप्युद्वाहोत्सवोद्यता वरपक्षीयाः सुहृदोऽपि वर इव कन्यां समीहमानाः केनापि दृष्टाः श्रुता वा?, जिनवलभवृत्तादिचर्चा ॥२५५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy