SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५६॥ जिनवल्लभवृत्तादिचर्चा HINDI | उत्कर्षतोऽपि मुद्रायलङ्काराभिलाषिणः, तथा संयता अपि ते वस्त्रकम्बलाद्यभिलाषिणोऽवगन्तव्याः,तस्मादहवस्त्पदलिप्सव इत्यादिवचनानि देवतायत्तानां प्रलापझषणकल्पानीति, नहि कौतुकोत्सुका गटगिरो गेयरतिकाः संभूय मिलिता बालका अपि सर्वे रजःपवणि राज्यप्रलिप्सवो भवन्तीत्येवं सुदृशा समीक्ष्यमाणा जिनदत्तकथा बिन्दुसंयुक्ताद्यवर्णा तद्भक्तानां कण्ठपीठे सदा तिष्ठतु,तस्माद्यथोक्तजनकजननीसंभूतो यथोक्तप्रवज्यादिनक्षेत्रत्रोटनादिचेष्टाकः कणवृत्तिवदवाप्तकिश्चिद्विद्याको यथोक्तचापल्यमौखर्यादिगुणगणालङ्कतः सोमचन्द्रो विधिसङ्घश्चेत्युभाभ्यामपि संभूयान्तवृत्त्या पर्यालोच्य च किंचिन्मनःसंतुष्टिनिष्पादनपुरस्सरं संकेतितेन देवभद्राचार्येण चित्रकूटे गत्वा श्रीअभयदेवमूरिपट्टे जिनवल्लभवजिनवल्लभपट्टे सोमचन्द्रो जिनदत्तनाम्ना संस्थाप्य समपितः, अन्यथा नाम्नाऽप्यज्ञातः सोमचन्द्रः सूरीकृत्य समपितः युगपत्समस्तस्य जिनवल्लभसमुदायस्य सम्मतः कथं भवेदित्येतावन्मानं जिनदत्तचरित्रं विचारणीयं, शेषं तु संगतिघटनाय घटितमप्युक्तयुक्त्या विघटत एवेतिकृत्वाऽपकर्णनीयमेवेति भावार्थ इति गाथार्थः ।।९।। अथोक्तं सूत्रत एव सूचयन्नाहगणहरसड्ढसयस्सा वित्तीए वण्णिओ अजिणदत्तो। सम्मं विआरणिज वण्णयवजं जहा जायं ॥१०॥ गणधरसार्द्धशतस्य जिनदत्तकृतस्य वृत्तौ जिनदत्तो वर्णितः तत्रेति गम्यं, तवृत्तौ वर्णकवर्ज-युगप्रधानोऽयमित्यादि यदर्णकवचनं तन्मुक्त्वा सम्यग्निचारणीयं 'यथा जात' यथा संवृत्तं तत्तथा विचारणीयमिति गाथार्थः ॥१०॥ अथ वर्णकस्य वर्जनं कथमित्याहवण्णयवयणं लोआभाणयणाएण पाय पहवडिअं। जह नियमायरं को डाइणिवाइत्ति लोउत्ति ॥११॥ BHIMAnimal mamPINDI ॥२५६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy