________________
श्रीप्रव
जिनवल्ल
भवृत्तादि
चनपरीक्षा ४विश्रामे ||२५३।।
स्यात् न वा ?, सोऽपि तं संविग्नसमुदायमिति, अयोग्यश्चेदलं रहः कर्णजापेन, नापि चतुर्थः, नहि जिनवल्लभेन कस्याप्याचार्य| पदं दत्तं, नाप्यमुकस्य देयमित्यनुन्नातमपि, किंतु स्वयमेव स्तनिकमताकर्षकनरसिंहोपाध्यायवत केनाप्यन्तच्या तुष्टिविधिना देव| भद्रसकाशादाचार्टीभूय विंशतिदिनाधिकं मासत्रयं जीवितवान् , अतस्तस्याचार्यपदं काशकुसुममिव निष्फलमेव संजज्ञे, इत्यादिवि|चारणया जिनवल्लभस्याचार्यपदं न श्रीअभयदेवरिवचसा, न वा तथाभूतः कस्यापि पट्टधरः, किंतु चन्द्रप्रभाचार्यादिवन्मताक |र्षकः, किंच-कर्णजापकल्पनास्थाने श्रीअभयदेवसरिभिश्चित्रकूटीयसंघस्य ज्ञापितं यदेष मया तथाविधयोग्यताया अभावादनङ्गीकृतः तत्र समागतः षष्ठं कल्याणकं व्यवस्थापयन् तिरस्करणीय इत्येव विचारणा ज्यायसी चतुरचेतश्चमत्करोति,लिङ्गाल्लिङ्गिनो ज्ञानमिति वचनात् ,तत्सद्भावे लिङ्गस्यापि सद्भावात् , कथमन्यथा चण्डिकामठे स्थितोऽपि सङ्घबाह्यः कृतः, खरतरकल्पना तु कर्णजापविषयिणी कोशपानप्रत्यायनीया स्वगृह एव प्रणिगद्यमानाऽपि न हृया, किंच-श्रीअभयदेवमूरिपाञ्चित्रकूटे गतस्तत आरभ्य न | | सूरेमिलितो नवा तदाज्ञा मागिता न वा संदेशकमपि प्रेपितवानित्यपि लिङ्गं स्फुटमेव, तस्मात्कर्णजापजल्पाको देवभद्रो लोभेन
मृषाभापी न संविन इति देवभद्रश्चचितः २। अथ जिनवल्लभस्थापितः समुदायश्चय॑ते, तथाहि-स समुदायः किं धर्मानुरक्तः | उत स्वमतानुरक्तः?, आद्यश्चेत्स एव तावदित्थं प्रष्टव्यः-ननु भो जिनवल्लभे परलोकं गते तीर्थ साचार्यकं निराचार्यकं वा ?,साचायकं चेत्तर्हि पञ्चकल्याणवाद्याचार्यनिश्रितं तीर्थ तयतिरिक्तं चातीर्थ स्वत एव सिद्धं,पर्यालोच्य तीर्थमेवाद्रियतामलमतीर्थे क्रीताचार्यनिश्रया प्रवर्त्तनेन ?, निराचार्यकं चेति द्वितीयः पक्षश्वेत्तर्हि किं जिनवल्लभस्य जिनदत्तस्य चाचार्यपददायकदेवभद्राचार्यस्य मुधा प्रशंसनादिक्लेशेन ?, किंच-देवभद्रस्य पञ्चकल्याणकवादिनः सकाशादाचार्यपदोपादानमपि न युक्तं, पद्कल्याणकवादिमतेन
ANILPAURANILIPALITIMIRPITITANPANE
॥२५३॥