________________
श्रीप्रवचनपरीक्षा ४विश्रामे २५२॥
जिनवल्लभाचार्यत्वचर्चा
AIGARH
MINUPAITIATIMATERIALIST
वगतो यन्नायं सामान्यपुरुषः,किंतु महापुरुषः,स्वयमेव चैत्यवासिसमवायमेव स्वायत्तीकृत्य प्रवचनप्रभावको भविष्यतीति चेत् तर्हि स्वयमेव तस्याचार्यपदं दया कथं न विसर्जितः१, तत्र संघसम्मतेरप्रयोजकत्वात ,किंच-संघासम्मतौ चैत्यवासिशिष्यत्वमेवोद्भा|वितं तत्तु खरतरस्य वक्तुमपि न युक्तं, यतश्चैत्यवासिन एव श्रीवर्द्धमानसूरेः श्रीउद्योतनसरिपट्टधरत्वं तैरेव भण्यते,अथान्यत्किञ्चि-|
कारणमितिचिकल्पश्चेत्तर्हि तद्वाच्यमवाच्यं वा?, वाच्यं चेदुच्यता, वक्तुं न शक्यते इति चेत्तर्हि अवाच्यस्य मस्तके किं शृङ्गं निर्गच्छति ? यदवाच्याद्वाच्यं भिन्नमिति भणित्वाऽपि वक्तुं न शक्यते इति भण्यते, तस्मादवाच्यमेव वक्तव्यं, तच्च कारणं तदेव संभाव्य | येन श्रीअभयदेवसूरिभिः शिष्यत्वेनापि प्रतिपत्तुं न शकितः, कथं पट्टधरत्वेनेति, किंच-पट्टधरोऽपि स एवोच्यते यस्तदीयसमुदायाधिपतिः स्यात् , नहि भिन्नसमुदायाधिपतीभूय प्रवर्त्तमानस्तत्पट्टधरः संभवति, लोकेऽपि नृपादिषु तथैव दर्शनात् , किंच| समुदायप्रतिबन्धाभावेऽन्यतोऽपि कुतश्चिदाचार्यपदमादाय यथा श्रीअभयदेवसूरिपद्धरत्वमात्मनः ख्यापयति तथा गौतमादीना| मेव किमिति न.पूत्कुरुते ?, समुदायप्रतिबन्धाभावस्योभयत्रापि तौल्यात् , किंच-नियतयोग्यतां संविदता सूरिणा यथा प्रसन्नच न्द्र एकान्ते भणितः तथा निजपदस्थापितः श्रीवर्द्धमानाचार्य एव भणितुं युक्तः, यतोऽसंभाव्यमपि स्थूलधीभिः संभाव्यते तत्पदाधिकारित्वाद् ,यो यत्पदाधिकारी सोऽन्यमपि तत्पदाधिकारिणं कर्तुसमर्थो भवति, न पुनः प्रसन्नचन्द्रः,सुरिपदानधिकारित्वाद् , एवं च सति देवभद्रो दुरतर एव, यतः 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वर' इति सूरिपट्टधरत्वमधिकृत्य श्रीवर्द्धमानाचार्यव्य|तिरिक्तानां सर्वेषामपि तद्राहित्येन दारिद्यात् , किंच-आस्तां प्रसन्नचन्द्रोऽपि, परं सर्वजनसमक्षमेव कथं न भणितः ?, रहसि भणने प्रयोजनाभावाद् , यदि जिनवल्लभो योग्यस्तर्हि संविनसमुदायो न तं पराभवति, विशेषतः सूरिवचनात् , अनुकूल एवं
mmammswaminimumnama
॥२५२॥