________________
श्रीप्रवचनपरीक्षा ४विश्राम
जिनवल्लभाचार्यत्व
चर्चा
॥२५॥
यस्तु खरतरेण संगतिघटनाय कर्णजापः कल्पितः, स च रब्बया कर्णसंधानकल्पोऽकिश्चित्कर एव, न विद्वत्पर्षद्यव्यक्तशब्देनापि| वक्तव्यः, तत्र युक्तिर्यथा-श्रीअभयदेवमूरिणा एकान्ते प्रसन्नचन्द्रो भणितस्तेन च देवभद्राचार्य इत्यादि तत्सर्व कोशपानप्रत्यायनीयम् , एतद्विषयेऽपरस्य साक्षिकस्याभावादिव्यकरणेनैव प्रत्ययः समुत्पादनीयः, अथ किंचित्साक्षिकाभावेऽपि विश्वसनीय भवेद् यदि युक्तिसंगतं स्यात् , तच्च युक्त्या विचार्थमाणमालजालकल्पं, विचारणा त्वेवं-यदि चैत्यवासिशिष्यत्वेन हेतुना सूरिभिः स्वहस्तेन स्थापितो गच्छसमातो न स्यात्तर्हि तथात्वे सत्येव तद्वचनेन प्रसन्नचन्द्रस्थापितो गच्छसम्मतः कथं स्यात् ?, किंच परम्परया श्रीअभयदेवरिवचनोद्भावनमकिश्चित्करमेव, यतो यथा जिनवल्लभसूरिपट्टधरः कृतः तथा सूरिवचनमन्तरेणापि मूरि| पट्टधरः क्रियतां, देवभद्रस्योभयत्रापि सामर्थ्यात् , किंच-जिनवल्लभस्याचार्यपदमन्तरेण किं न्यूनं को गणाधारः कोऽप्यात्मीयो नासीदुताचार्यपदमन्तरेण तस्य चारित्रगुणा हीयन्ते अथवा योग्यतैव काचित्तस्य तादृशी येनावश्यमस्याचार्यपदं कर्त्तव्यमेव उतासादेवाग्रतोऽप्याचार्यपदप्रवृत्तिर्येनासत्यपि समवाये रहस्याचार्यपदस्थापनायै सूरिभिराज्ञा दत्ता ?, नायः, गणाधारस्य वर्द्धमानाचार्यस्य स्वहस्तेनैव कृतत्वात् , न द्वितीयः, आचार्यपदमन्तरेणापि बिशिष्टचारित्रगुणानामुपलब्धेः प्रतीतत्वात् , न तृतीयः, सरिभिरेव तत्पदस्थापनायाः कर्तव्यताऽऽपत्तेः, एकसिन्नपि योग्यानामनेकेषामपि मूरिपदसंभवात् , कथमन्यथा श्रीजिनेश्वरमूरिणैव जिनचन्द्राभयदेवावाचार्यपदे निवेशितौ ?, अथैवमपि सङ्घासम्मत्या वर्तुं न शक्यत इतिचेत्तत्र संघसम्मत्यभावे निदानं किं चैत्यवासिशिष्यत्वमन्यद्वा ?,आये दिग्बन्धादिना तदपाकरणस्य सुकरत्वाद् ,एवमप्यसम्मतौ कथं प्रसन्नचन्द्रस्थापितः सम्मतो भविप्यतीति सूरेविचारणा किं नासीत् ?, मत्पट्टेऽयं स्थापनीय इत्येकान्ते भणितम् , अथ विचारणा आसीदेव,परमेतादृश एवायम
mada
maniuminium
1-५१