SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ JAINITAHANI श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५०|| HIRANIPRITAMIHIRAINRealiAIATSAPPA चैत्यवासिनो जिनवल्लभस्य पट्टधरो जातः?, अव्यक्तश्चेद् बालभावादज्ञानाद्वा ?, आद्योऽसंभवी,तदानीमेकोनचत्वारिंशद्वर्षीयवयस्कत्वाद् , अज्ञानाद्वेति द्वितीयो विकल्पः खरतराणामेवानिष्टः, किंच-अयं यदि युगप्रधानपदवीयोग्यः सूरिपददानमात्रेणापि|" स्वायत्तीकर्तुं शक्यश्च तर्हि निजगणाचायः श्रीवर्द्धमानाचार्यादिभिर्निजपद एव कथं न स्थापितः, नहि निपुणः कोऽप्येतादृशं । पात्ररत्नमन्यत्र गन्तुं ददाति, यत्नछतैरपि पुनरप्राप्यत्वादिति संक्षेपतो जिनदत्तश्चञ्चितः ।। अथ देवभद्राचार्यश्चर्यते स संविग्नोऽसंविग्नो वा ?,संविग्नश्चेत्तर्हि षट्कल्याणकत्ररूपणादिना नवीनमतप्रवर्तकत्वात् सधेन बहिष्कृतस्य जिनवल्लभस्य पट्टे | निजविनेयप्राय सतीर्थ्यमाचार्यांकृत्य तदीयसमुदायस्य समर्पयेदिति वा गन्धस्याप्यसंभवः, संभवे वा संविग्नत्वस्यैषासंभवः, नहि प्रवचनदत्तदृष्टिः संविग्नः साधुः संविग्नपाक्षिको वा उत्सूत्रमार्गमुत्सर्पयेत् , प्रत्युत प्रवचनाहितस्य तदीयमार्गस्योच्छेदाभिप्रायेण तदीयसमुदाय तथाविधहितोपदेशदानादिना स्वनिश्रयैव प्रवर्त्तयेत् , संविनानां तथैवाचाराद् , अन्यथोपेक्षणादिना संसारवृद्धिलघुतादयो बहवो दोषाः, किंच-स देवभद्रस्तदीयसमुदायस्य सम्मतोऽसम्मतो वा?, आद्येऽनवद्योपदेशेन तथाविधो विधिसधमुखेनैवः धर्ममार्गेऽवतारयितुं शक्यः, कथं तेन नावतारितः?,असम्मतश्चेत्कथं तच्छिष्यः सोमचन्द्रः सम्मतो जातः इत्यत्रान्त-/ श्या काचिन्महती विचारणा कर्तव्या,नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते इतिन्यायात ,केन प्रयोजनविशेषेणैवं सादरं देवभद्रस्य प्रवृत्तिरिति, ननु संविग्नशिरोमणिना श्रीअभयदेवमूरिणा अन्त्यसमये प्रसन्नचन्द्राचार्य एकान्ते भणितः-योग्योऽपि जिनवल्लभः चैत्यवासिशिष्यत्वेन गच्छासम्मतत्वानिजपदे स्थापयितुं न शकितः, परं भवद्भिरेव मत्पदे स्थापनीय इत्यादिप्रागुक्तमकारेण श्रीअभयदेवमूरिवचनस्यैव प्रमाणीकरणमत्र प्रयोजन,तत्र का विचारणेति चेद् अहो अत्रैव महत्या विचारणायाः सचात् ,तथाहि M ANITARIKAAN ॥२५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy