SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवपरीक्षा ४ विश्रामे ॥२४९॥ | वैपरीत्यभावसूचकं चेत्यादिपर्यालोच्यमाने प्रथमपक्षो न दक्षः, क्षोदाक्षमच्चात्, तथाहि तत्र तावद्भविष्यद्युगप्रधान भावसूचकं किमुद्र| तक्षेत्रत्रोटनं कल्प्यते उत रजोहरणाद्युद्दालनेऽपि युक्तं कृतमिति भाषणमथवा चोटिकामार्गण पुरस्सरं परावृत्य स्वगृहगमनं चेत्यादि, यत्किचिदेतत्, नहि निशान्ते स्पष्टदृष्टोऽपि काकस्वनः आत्मनः करिशतपरिकल्पितां राज्यपदवीं सूचयति, तस्माद् द्वितीयविकल्प | एव ज्यायान्, तस्यैव विचारक्षमत्वात् तथाहि - उद्गतक्षेत्रत्रोटनेन धर्माङ्कुरितस्य सङ्घक्षेत्रस्य देशेन धर्मनाशको भविष्यामीमि स्तु| चितं, रजोहरणाद्युद्दालनेऽपि युक्तं कृतमिति भणनेन मदीया दीक्षा ममान्येषां च न श्रेयस्करी भविष्यतीति सूचितम्, आक्रोशेऽपि निर्भयतया प्रतिवचोदानेन तीर्थनिर्भत्सितोऽपि निर्भयतया प्रतिजल्पाको भविष्यामीति तेन सूचितं, चोटिकामार्गण पुरस्सरं गृह| गमनभणनेन गृहवास एव मम श्रेयानित्यसूचि, एवं प्रामाणिके विचारे कर्तव्याऽपि यत्तदीयैरुपाध्यायादिभिः एष इत्यादि विचारित तदवश्यं तथाविधभवितव्यतायोगादेव बोध्यं तथा केनचिदहो सितपटाः ! कपालिकाग्रहणं किमर्थमिति मृदुवचसोदीरितोऽपि | त्वदीयमुखचूरणर्थीमात्मनो मुखमण्डनार्थं चेत्यादि निष्ठुरभाषणेन पञ्जिकाध्ययनमात्रेणापि कश्वित्पाषाणः कश्विभेत्यधुनैव ज्ञास्यते | इत्यादि सगर्व भाषणेन चात्मनो मौखर्यमेव ज्ञापितवान्, न पुनः कञ्चित्सत्पुरुषस्वभावम्, अत एव खरतर इति नाम्नोऽपि हेतुजिनदत्तमौखर्यमेवेत्यग्रे वक्ष्यते, तथा सम्मतेन सोमचन्द्रस्य लेखः प्रेषित इत्युक्त्वा सामान्येन जिनवल्लभपट्टे कश्चिदुपवेक्ष्यति, परं कोऽपि न जानाति अमुक इति कथं संगतिः १, किंच - तदानीं सोमचन्द्रो व्यक्तोऽव्यक्तो वा ?, व्यक्तवेत्कथं स्वकीयं गणं | गणाचार्य प्रवाजनाचार्य स्वकीयसंघाटकादिकं वाऽनापृच्छयाविमृश्य च सहसा सर्वमपि प्रतिबन्धं परित्यज्य स्वयं श्रीवीरस्य पञ्चकल्याणकवादी चन्द्रगच्छीयः सन् अतर्कित एव देवभद्रसकाशादाचार्थीभूय परलोकगतस्यापि षट्कल्याणकवादिनः कूर्च्चपुरीय जिनदत्तवृत्तचर्चा ॥२४९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy