SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२४७॥ पश्चात् सर्वसम्मतेन सोमचन्द्रस्य लेखः प्रदत्तः यच्चित्रकूटे शीघ्रं समागन्तव्यं येन श्रीजिनवल्लभसूरिपदस्थापनं भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसूरिपद प्रतिष्ठा या मनागतोऽभूस्त्वं बहवश्च तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीपर्णपर्णाक्षाः | साक्षादिव मकरध्वजाः गूर्जरत्रा संजाताः संयता अभ्युद्यता आसन्, परं योग्यतां गुरव एव विदन्ति, किंबहुना ?, देवभद्राचार्याः | पण्डितसोमचन्द्रोऽन्येऽपि साधवश्चित्रकूटे समाजग्मुः, सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभस्रिपदस्थापनं भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसूरिप्रतिष्ठिते साधारणसाधुकारिते श्रीमहावीरचैत्ये पदस्थापनं भविष्यति, ततः स्वप| रिभावित लग्नदिनादर्वाग्दिने श्रीदेवभद्राचार्यैरेकान्ते भणितः पण्डितः सोमचंद्रगणिः - यदुतास्मिन् दिने युष्मदीयं पदस्थापनालग्नं भावितमस्ति, पंडितसोमचन्द्रेणोक्तं यद्युष्माकं सम्मतं तद्युक्तं, परं यद्यस्मिन् लग्ने स्थापयिष्यते तदा न चिराय जीवितं भविष्यति, | षण्णां दिनानामुपरि शनैश्वरबारे यल्लग्नं भविष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रीश्रमणसङ्घः श्रीजिनवल्लभसूरिवचनेन प्रभूतो भविष्यति, चिरंजीवित्वं च देवभद्राचार्यैरुक्तं तदेव वयमपि गवेषयामः, तदपि लग्नं न दूरे, तत्रैव भवतु, ततस्तस्मिन् दिने श्रीजिनवल्लभसूरिपदे विस्तरेण संध्यासमये लग्नवेलायां संस्थापिताः श्रीजिनदत्तनामानो युगप्रवराः, ततो वादित्रे वाद्यमाने समानीता वसतौ, प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिभिर्भणितं -देशनां कुरुत, ततः सिद्धान्तोक्तोदा | हरणानुसारिमनोहारिसुधासारणीगीर्वाणवाणीप्रबन्धेन तथा कृता पूज्यैः श्रीजिनदत्तसूरिभिर्देशना यथा ह्रस्वशरीरः श्यामवर्णोऽयं किमित्युपवेश्यते ? किं न संत्यन्ये गौरववर्णा लम्बकर्णाः विशाललोचना गच्छमध्ये साधव इत्यादिकालुष्य मपहाय सर्वा प्रजा | रञ्जिता भणति - अहो सिंहानां पदे सिंह एवोपविष्टो विराजते, धन्याः श्रीदेवभद्राचार्याः येरीदृशं पात्ररत्नं परीक्षितं, किमस्मादृशाः जिनदत्तवृत्तं ॥२४७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy