SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२४६ ॥ | वकारो यत्र स नवकार इति यथार्थनाम, प्रतिभावता प्रोक्तं झटिति सोमचन्द्रेण - मैवमावेदयन्त्वाचार्याः, किं तर्हि ?, नवकरणं नवकार इतिव्युत्पत्तिः कार्या, आचार्येण ज्ञातम् - अहोऽत्यन्तसदुत्तर एपः अनेन सह वक्तुं न शक्यते, अन्यदा लोचदिने व्याख्यानभणनाय नागतो, व्याख्यानव्यवस्था चेदृशी - यद्यप्येकोऽपि छात्रो नागच्छति व्याख्यान, अभणत्याचार्ये सगर्वं भणितमधिकारिपुत्रैः- आचार्यमिश्राः ! सोमचन्द्रस्थाने एप पापाणो घृतोऽस्ति, भगत यूयं व्याख्यानं, ततस्तदनुरोधेन भणितं व्याख्यानं, द्विती| यदिने समागतः सोमचन्द्रः प्रपच्छ छात्राणि - अतीतेऽह्नि किं मां विना भणितं युष्माभिः ?, तैरुक्तं त्वदीयस्थाने पाषाणो धृतः, सोमचन्द्रेणोक्तं- कश्चित्पापाणः कश्चिनेत्यधुनैव ज्ञास्यते, यावती पञ्जिका भणिता तावतीं मां पृच्छन्तु, एतानप्यहं पृच्छामि, यथार्थ यो न व्याख्यास्यति स एव पाषाणः, भो सोमचन्द्र ! त्वां प्रज्ञादिसौरभ्यगुणाढ्यां कस्तूरिकां जानाम्येव, परमेतैर्मूर्खः प्रेरितोऽहं व्याख्यानेऽतः क्षन्तव्यं भवता, एवं पञ्जिकापाठः, अशोकचन्द्राचार्येणोत्थापना कृता हरिसिंहाचार्येण सिद्धान्तवाचना दत्ता पण्डितसोमचन्द्राय तथा मन्त्रपुस्तिका, यया सिद्धान्तवाचना स्वयं गृहीता सा कपालिका भगवता तुष्टेन दत्ता, तथा देवभद्राचायेण तुष्टेन काष्ठोत्किरणं दत्तं येन महावीरचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि, एवं पण्डितसोमचन्द्रगणिर्ज्ञानी ध्यानी सैद्धान्तिकः सर्वजनमनोहारी श्रावकाणामाह्लादकारी साध्वाचारेण ग्रामानुग्रामं विहरति, इतश्च श्रीदेवभद्राचार्यैः श्रुता जिनवल्लभसूरीणां देवलोकगमनवार्त्ता, समुत्पन्नोऽतीव चित्तसंतापः, अहो सुगुरूणां पदमुद्घोषितमभूत् परं विघटितं, पश्चाद्देवभद्राचार्याणामीदृशं चित्तं जातं - श्रीजिनवल्लभसूरिः युगप्रधानपदयोग्य पदस्थापनेन नाद्रियते तदा का भक्तिः, चिन्तितमाचार्यै: - अस्मिन् गच्छे कस्तत्पदयोग्य इति चिन्तायां पंडितसोमचन्द्रगणिर्लयो, निश्चितमेष एव योग्यः, श्रावकाणां ज्ञानध्यानक्रियापरत्वेनानन्दकारी, जिनदत्तवृत्तं ॥२४६ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy