SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ विधिसंघः श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४॥ एवं षष्ठकल्याणकप्ररूपणेन 'व्युद्ग्रहयन्' तथाविधक्लिष्टकर्मवशवत्तिनो जनान् विप्रतारयन् 'अन्यत्र' चित्रकूटादन्यत्र नागपुरादौ 'कइ वरिसे'त्ति कति वर्षाणि-कतिसंख्याकानि वर्षाणि विहृत्य प्राकृतत्वात्पुस्त्वं निजमेव-स्वकीयमेव निजकमेवंविधं यत्पदंस्थानं तदुचितेन शिष्येण रहितः-शून्यः, स्वपदे कश्चनापि शिष्यमनवस्थाप्येत्यर्थः, 'कालयोगेन' तथाविधकालसामग्र्या 'कालं' | कालधर्म मरणं प्राप्तः, स्वपदोचितापत्यशून्य एव परलोकं गत इत्यर्थः, बहुकालं विहरताऽपि जिनवल्लभेनामुकः प्रत्राजित इति श्रुतेरप्यनुपलब्धेः अपत्यशून्यत्वेऽपि नाशकेति, किंच-अग्रेऽपि प्रसंगतो निरपत्यत्वसूचिका बढ्यो युक्तयो वक्ष्यन्ते इतिगाथार्थः | ॥६॥ अथ जिनवल्लभवक्तव्यताया उपसंहारमाहइअ जिणवल्लहजाओ कुच्चयरा नामओ अ विहिसंघो । खरयरमयबीअंति अकाउमिह समासओ भणिओ॥७॥ | इति-अमुना प्रकारेण कूर्चपुरात्' कूर्चपुरीयगच्छात् नामतःचकारोऽवधारणे नामत एव,विधिसङ्घः,परमार्थतोऽविधिसङ्घ एव,यथा परमार्थतोऽनागमिकोऽपि नाम्ना आगमिकः प्रतीतो, 'जिनवल्लभजातः' जिनवल्लभात्समुत्पन्नः,खरतरमतबीजमितिकृत्वा इह 'समासतः संक्षेपतो भणितः, अन्यथा 'हतं सैन्यमनायक' मितिवचनात् जिनवल्लभस्य निरपश्यत्वे तन्मतस्यापि तदन्वेवोच्छिन्नत्वात्तगणनमयुक्तं स्यादितिगाथार्थः ॥७॥ अथ कथं खरतरमतस्य बीजभूतो विधिसङ्घ इत्याह कुच्चयरा विहिसंघो दुग्गमिवऽवलंबिऊण विहिसंघं । जिणदत्ताओ खरयरनामेण पवहिअंकुमयं ॥८॥ 'कूर्चपुरात्' कूर्चपुरीयजिनेश्वरसूरिशिष्यजिनवल्लभाद्विधिसङ्घः समुत्पन्नः, तदुत्पत्तिस्तु विक्रमतस्त्रिंशदधिकैकादशशतादारभ्य वर्षाणां विंशतेरागवावगन्तव्या, विधिसङ्घमवलम्ब्य जिनदत्तात् खरतरनाम्ना कुमतं प्रवर्तितमितिगाथार्थः॥८॥ अथ जिनदत्तेन immtimate ri HAMARITIHIPAHIRAIN .himirAIRIT.Itemati R ITEMAP ॥२४३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy