SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभप्ररूपणा श्रीप्रवधनपरीक्षा ४विश्रामे ॥२४२॥ AmittailsiminilkamalSHAREmainst पाशवन्धनवतः शक्तश्च न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः,सङ्घच्याघ्रवशस्य जन्तुहरिणत्रातस्य मोक्षः | कुतः ?॥१॥" इतिसङ्घपट्टके,तद्वृत्त्येकदेशो यथा-तथैदंयुगीनसधप्रवृत्तिपरिहारेण सङ्घबाह्यत्वप्रतिपादनममीषां भूषणं,नतु दूषणं, तत्प्रवृत्तेरुत्सूत्रत्वेन तत्कारिणो दारुणदुर्गतिविपाकश्रुत्या तत्परिहारेण प्रकृतसङ्घवाह्यत्वं तेषां चेतसि रुचितत्वादित्यादिना सङ्घबाह्यत्वकरणं च तदानीं तस्य सिद्धमेव, न च जिनवल्लभस्य यत्सङ्घवाह्यत्वं तच्चैत्यवासिसङ्घापेक्षयैवेतिवाव्यं, चैत्यवासिभिरपि सुसाधु| समुदायस्य वचसाऽपि तथा पराभृतेः कर्तुमशक्यत्वात् , नहि लोकेऽप्युन्मार्गगामी भ्यानपि जनः सुमार्गगामिनं वचसाऽप्यपा तेयं कर्तुं शक्नोति, तथा जगद्यवहाराभावात , श्रीअभयदेवसूर्यादीनामपि तथापराभूतिप्रसक्तेश्च, नचैतत्क्वचित् कदाचित्केनापि | असंविग्नसमुदायेन संविनसमुदायःसंघबहिष्कृत इति दृष्टं श्रुतं वा,किंच-खरतरेणाप्यैदंयुगीनसङ्घप्रवृत्तिपरिहारेणेत्याधुक्तं न पुनश्चैत्यवासिस नेत्यायुक्तं, तस्मात्संघबाह्यता जिनवल्लभस्य तीर्थानभिमतप्रकाशकत्वात् निवारणेऽप्यनिवृत्तत्वाच्च पूर्णिमाप्ररूपकचन्द्रप्र-| भाचार्यवद् बोध्यम्,एतेन श्रीअभयदेवसूरिनिश्रां प्रतिपद्यैव जिनवल्लभो विहृतवानित्यपि कश्चिद्वाचालो वदन्नेव मुद्रितवागवगन्तव्यः, श्रीअभयदेवसूरिनिश्रितस्य सङ्घबाह्यत्वकरणासंभवात् , किंच-यद्ययं सङ्घबाह्यो नाभविष्यत्तदा तदानींतनसङ्ख व्याघ्रोपमयाऽपि नोपावर्णयिष्यत् , तस्मात्सङ्घ निवारयत्वेव षष्ठं कल्याणकं व्यस्थापित, संयतीनिवारणं तु खरतरेणाप्युक्तमस्तीति प्रागुक्ततब्यतिकरे बोध्यम् ,एवं संयतीनिवारणे सिद्धे संघनिवारणं तु सुतरामेव सिद्ध्यति, संयत्याश्च सङ्घान्त तत्वादितिगाथार्थः॥५।। अथैवं प्ररूपयन् | जिनवल्लभो यथा परलोकं प्राप्तस्तथा दर्शयन्नाह एवं बुग्गाहंतो अपणत्यवि विहरिऊण कइ वरिसे । निअयपयसीसरहिओ कालगओ कालजोएण ॥६॥ M PHIBAIDARBHANIPRITALIARPATRAIIMSPail man PNBATHRU ॥२४२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy