________________
mam
जिनबल्लभप्ररूपणा
श्रीप्रवघनपरीक्षा ४विश्रामे ॥२४॥
IMILA MI G AIRAISINSANIL NAPAIKINNARAIN NRSHIP
L ITAPUR
हितनेपथ्यः साधुवेषधारी, साध्याभास इत्यर्थः, किंच-अनन्तानुबन्धिकपायोदयमन्तरेणोत्सूत्रमार्गप्रवर्तकत्वासंभवात् , अनन्तानुबंधिकपायिणो हि नियमान्मिथ्यादृष्टय एव, ते च सुविहितमत्सरिण एव स्युः,यद्यपि कदाचित् वाङ्मात्रेण सुविहितानुकूल्यं ज्ञापयन्ति तथापि ते विषकुम्भामृतपिधानकुम्भकल्पा बोध्याः,यथा साम्प्रतमपि केचन कुपाक्षिकाः वयं तपागणसाधूनां महानुभाक्त्वमेव श्रद्दमह इति प्रत्यक्षा दृश्यम्ते, तेन तथाभूतेन सुविहितभ्रान्तिजनकेन जिनवल्लभेन 'वचनरचनया' निजवचनचातुर्या कालानुभावात् 'केइवि' अपिरेवार्थे केचिदेव, न पुनः सर्वेऽपि, श्राद्धाः उपलक्षणात्काश्चित् श्राविका अपि 'वशीकृताः स्वायत्तीकृताः, तत्रत्यसबैकदेशः स्वायत्तीकृत इत्यर्थ इतिगाथायुग्मार्थः ।३।४। अथ जिनवल्लभेन किं प्ररूपितमित्याह
तेसिं पुरओ पढम छटुं कल्लाणगंपि उवइटुं । निअचिंतिअकन्जट्ठा बारिजंतेण तेणेव ॥५॥ ये श्रावकाः स्ववशीकृतास्तेषां पुरस्तात्प्रथमम्-आदौ षष्ठं कल्याणकमेव प्ररूपितं,विपरीतबोधनिदानं तूत्सूत्रवचनावसरे वक्ष्यामः, किमर्थ षष्ठ कल्याणकं प्ररूपितं ?-'निअ'इत्यादि, निजचिन्तितकार्यार्थ, मयाऽवश्यं षष्ठं कल्याणकं व्यवस्थापनीयमित्येवंरूपेण चिन्तितं यत्कार्य तदर्थ, केन?--'तेनैव' जिनवल्लभेनैव, पष्ठकल्याणकप्ररूपणामूलं जिनवल्लभ एव, नान्यः कोऽपीत्यर्थः, किं क्रियमाणेन ?-निवार्यमाणेन अर्थात्तीर्थेन, अयं भावः-प्रवचनोपघात्यनुचितं प्ररूपयन्तं बलवन्तमपि पुरुषं तीर्थकदाज्ञावर्ती सयो निवारयत्येवेतिकृत्वा भो जिनवल्लभ मा इत्थं प्ररूपयेत्याक्रोशवचनैस्तीर्थनिवारितोऽपि अभिनिवेशात्पष्ट कल्याणकं तीर्थमवगणय्यैव व्यवस्थापितवान् , अन्यथा सङ्घन बहिष्कृतेरसंभवात , न छपराधी तदीयापराधमनुद्भाव्यैव केनापि बहिष्क्रियते इति लोकेऽपि प्रतीतत्वात् , बहिष्कृतत्वं च जिनवल्लभस्य खरतरेणैव भणितं, तथाहि-"संघत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढ़
an-m a.HIRAINRemilane waliNTAIN ! PatanANIMEHINDISEARNAGARIMINS
मुद्रादृढ-D/ ॥२४१॥