________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥ २४० ॥
गाथार्थः ||२|| अथ जिनवल्लभः कीदृशो भूत्वा किं कृतवानिति ज्ञापनार्थ गाथायुग्ममाह -
सो च निअयगुरुं चित्तउडे चंडिआममि ठिओ । बासारत्तं अण्णत्थ वसहिमवगासमलहंतो ॥३॥ सुविहिअ मच्छरग सिओ तसिओ सुपहा सुविहिअनियत्थो । तेणं केवि सढा वसीकया वयणरयणाए ॥४॥ सोऽनन्तरोक्तो जिनवल्लभो निजको निज एव निजक आत्मीयः स चासौ गुरुच - प्रवाजनाचार्यस्तं श्रीजिनेश्वरसूरिनामानं 'त्यत्वा' अपास्य 'जिणवल्लहको हाओ' ति वृद्धवचनात् क्रोधादितिगम्यं, क्रोधनिदानं तु 'पंचहत्थुत्तरे' त्यादिव्याख्यायां राभस्या| स्पष्ठ कल्याणकप्ररूपणे गुरुणा निवारणमेव संभाव्यते, तद्वयंजकं तु वृद्धवादानुगतं प्रागुक्तजिनवल्लभव्यतिकरे गुर्जरत्रावनौ विहरतो जिनवल्लभस्य चित्तस्वास्थ्य हेतोः कस्यापि प्रतिबोधाभावाच्चित्रकूटे षष्ठकल्याणकव्यवस्थापनानन्तरं चित्तस्वास्थ्यं समजनीत्यर्थवद्गणधर सार्द्धशतक वृत्तिवचनमेव, अन्यथा तथाविधार्थापैकवाक्याद्यसंभवाद्, एवं क्रोधान्निर्गतश्चित्रकूटेऽन्यत्र वसत्यव - काशमलभमानो वर्षारात्रं 'चण्डिकामटे' चण्डिकाभिधाना मिथ्यादृग्देवता तस्याः स्थाने 'स्थितो' वर्षानिवासं कृतवान् कीदृशो | जिनवल्लभः ? " सुविहिअ" इत्यादि 'सुविहितमत्सरग्रस्तः' सुविहितास्तदानीं श्री अभयदेवसूरि श्रीदेवसूरिप्रभृतयस्तेषु यो मत्सरः, तैरनादृतत्वेन तेष्वान्तरवृच्या सेर्भ्यः तेन ग्रस्तः- तदायत्तः, तद्व्यञ्जकं च तथाभूतेष्वपि सुविहितेषु तन्नि श्रामन्तरेणैव यावजीवं स्वेच्छया प्रवर्तनमुत्त्ररूपणेन तीर्थबाधाकारि नवीनमतव्यवस्थापनं चेति स्फुटमेव, अन्यथा षष्ठकल्याणकव्यवस्थापनस्यासंभवात् नचार्य श्री अभदेवसूरिनिश्रयैव प्रवृत्तो भविष्यतीति शङ्कनीयं तदनिश्रयैव प्रवृतेरस्य दर्शयिष्यमाणत्वात् पुनः कीदृशः'त्रस्तः ' त्रस्त इत्र त्रस्तो, भ्रष्ट इत्यर्थः कुतः ? - 'सुपथात्, शोभनः पंथाः सुपथो - जिनोदितमार्गस्तस्मात् पुनरपि कीदृश: ? - 'सुवि
जिनवल्लभवृत्तं
॥२४०॥