SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥२३९॥ श्रीदेवभद्राचार्यैः श्रीअभयदेवसूरिपट्टे श्रीजिनवल्लभगणिः स्थापितः, अनेन भव्यलोकः श्रीजिनवल्लभमूरीन् युगप्रधान श्रीअभयदेवसूरिप्रभुभक्तान् समालोक्य मोक्षमार्गे प्रवृत्तः, देवभद्राचार्यादयस्तु पदस्थापनं कृत्वा कृतकृत्यमात्मानं मन्यमानाः श्रीअणहिल्लपाटकादिस्थाने विहारं चक्रिरे, श्रीजिनवल्लभसूरिभिस्तु स्वायुः प्रमाणं गणितं यावत् षड् वर्षाण्यद्याप्यायुरस्तीत्यागतं, ततश्चिन्ति - तम् - एतावताऽपि कालेन प्रभूतभव्यलोकप्रतिबोधं करिष्याम इत्येवं सुस्थितानां तेषां पण्मासातिक्रमेऽकस्माद्देहास्वास्थ्यं जातं, ज्ञातं किमेतत् ?, पुनर्निपुणं निरूपयन्ति तावदङ्कोच्छिष्टं जातं, पण्मासानां स्थाने पड्वर्षाण्यागतानि तत एतावदेवायुरिति निश्चित्य ते महासत्त्वाः समस्तसङ्घन सार्द्धं दत्तमिध्यादुष्कृताः प्रतिपन्नचतुःशरणा विहितसर्वसच्चक्षामणाः दिनत्रितयमनशनं विधाय सप्तषष्ट्युतरैकादशशतसंवत्सरे ११६७ कार्त्तिक कृष्णद्वादश्यां १२ रजनीचरमया मे पञ्चपरमेष्ठिपरावर्त्तनं कुर्वन्तः श्रीजिनवल्लभसूरयो महात्मानचतुर्थदेवलोकं प्राप्ता इत्यादि जिनदत्ताचार्यकृतस्य गणधर सार्द्धशतकस्य बृहद्वृत्तौ, एवंविधे जिनवल्लभव्यतिकरे तदपत्यकृतवर्णनमाकर्ण्य न सम्मोहः कार्यः, यतो जनकजननीखर्जूरादिखाद्यार्पणविधिपुरस्सर वशीकरणपञ्चशतीद्रविणार्पणपूर्वकप्रवाजनाचार्याभिधानोत्सूत्रव्यवस्थापन पुरस्सरसाधारणसट्टकप्रमुखनवीनसमुदायव्यवस्थापनार्थिकोत्सूत्रनिवारणप्रमुख संबन्धमात्रघटक समीचीनं, शेषं तु योगाद्यनुष्ठानविकलस्यापि तथाभूतस्य जिनवल्लभस्य संविग्नश्री अभयदेवसू रिसकाशात्सिद्धान्तवाचना श्रीअभयदेवसूरिसंबन्धघटनाय प्रसन्नचन्द्रादीनां कर्णजापपरम्परया तत्पट्टधरत्वमित्यादिकं जिनदत्ताचार्यादिभिर्विकल्प्य लिखितं सम्यग्धिया पर्यालोच्यमानं विशीर्यत एवेति कृत्वा अकिञ्चित्करमेवेति बोध्यं तत्पर्यालोचनं च खरतरौष्ट्रिकादिनामव्युत्पत्तिवक्तव्यतावसरे वक्ष्यते, अत एव भूयोऽसंगतोऽपि जिनवल्लभव्यतिकरोऽग्रे बहूपयोगीति विचिन्त्य किञ्चित्सविस्तर मिहैव लिखित इति जिनवल्ल भवृत्तं ॥२३९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy