________________
जिनबल्लभवृत्तं
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥२३॥
सहस्रम, विमलञानदृष्टयो जिनवल्लभगणयः श्रावक ! बहुतरं कुरु, ततः कृतानि त्रिंशत्सहस्राणि, पुनर्ज्ञानेन-महानुभाव ! इतोऽपि प्रभृततरं परिभावय, साधारणः-प्रभो! मदीयसमस्तगृहमारमूल्यगणनेऽपि पश्च शतानि न पूर्यन्ते, कौतस्कुती ममाधिकतरद्रव्यसंप्राप्तिः ?, पुनहुंकृत्य प्रभवः-सर्वसाधारणसाधारण धार्मिकथावक ! किमसाध्यं पुण्यसंभारस्य ? मा कुरु गणनतुलां, चणकमात्रविक्रयिणोऽपि पुरुषाः संख्यातिगा लक्षपतयो भवन्तीति, सामिप्रायं गुरुवचनमाकर्ण्य निश्चिन्तित किंचित् काञ्चनसंप्राप्त्यादिकं भद्रं मम भविष्यतीति विचिन्त्येषद्विहस्य च साधारणेनोक्तं-यद्येवं तर्हि भगवन् ! भवतु सर्वपरिग्रहे ममैकं लक्षमिति,तथा वितीर्णगृहीतपरिग्रहपरिमाणः सन् सद्गुरुपादोपास्त्यपहस्तिताप्रशस्तान्तरायका दिने दिने प्रबर्द्धमानः संपदा गुर्वाज्ञया विशेषतः प्रवर्तमानः साधारणः सकलसङ्घस्य साधारणः समभूत्, सहकादयोऽपि श्राद्धाः साधारणवत् सर्वत्र जिनवल्लभ| गणेराज्ञया प्रवर्तितमारब्धाः, तत्र कृतचतुर्मासककल्पानां श्रीजिनवल्लभगणिवाचनाचार्याणामाश्विनमासस्य कृष्णपक्षत्रयोदश्या |श्रीमहावीरदेवगर्भापहारकल्याणकं (आगतं "पंचहत्युत्तरे होत्था साइणा परिनिबुडे'त्ति प्रकटाक्षरैरेव सिद्धान्ते प्रतिपादनाद् ,अन्यत्र तथाविधं विधिचैत्यं किमपि नास्ति, ततोऽत्रैव चैत्यवासिचत्ये गत्वा यदि देवा वन्द्यन्ते तदा शोभनं भवति, गुरुमुखकमलविनिगतवचनाराधकः श्रावकैरुक्त-भगवन् ! ययुष्माकं सम्मतं तत् क्रियते,ततः सर्वे श्रावकाः निर्मलशरीरा निर्मलवस्त्रा गृहीतनिर्मलपूजोपकरणा गुरुणा सह देवगृहे गन्तुं प्रवृत्ताः, ततो देवगृहस्थितया आर्यिकया गुरुश्राद्धसमुदायेनागच्छतो गुरुन दृष्ट्वा पृष्टं-को | विशेषोऽद्य ?, केनापि कथितं-वीरगर्भापहारकल्याणककरणार्थमेते समागच्छन्ति,तया चिन्तितं-पूर्व केनापि न कृतमेतद्, एतेऽधुना करिष्यन्तीति न युक्तं,पश्चात् संयतीदेवगृहद्वारे पतित्वा स्थिता, द्वारप्राप्तान् प्रभृनवलोक्योक्तमेतया दुष्टचित्तया-मया मृतया यदि
॥२३