________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२३६॥
| ततस्तेनापि स्वायुःपरिसमाप्तिसमये श्रीदेवभद्राचार्याणां विज्ञप्तं यत्सुगुरूपदेशो युष्माभिरेव सफलीकार्योऽवश्यमेव, मया कत्तु न जिनवल्लशकितः, ततः प्रतिपन्न-वर्तमानयोगेनैवं करिष्यामः, समाधानं भवद्भिर्विधेयमिति, जिनवल्लभवाचनाचार्योऽपि कतिचिदिनानि भवृत्तम् पतनभूमौ विहत्य न तादृशो विशेषेण बोधः कस्याप्यत्र गुर्जरत्रामण्डले विधातुं शक्यते येन समाधानमुत्पद्यते (इति) मनसिक| त्यात्मद्वितीय आगमविधिना मुशकुनेन भव्यजनमनस्सुक्षेत्रभृमिकासु भगवद्भणितविधिधर्मवीजनिक्षेपणार्थ श्रीमेदपाटदेशादिषु | विहारं चकार, ते च देशाः सर्वेऽपि प्रायेण चैत्यनिवास्याचार्याप्ताः, सर्वोऽपि लोकस्तद्वासितो वर्त्तते, किं बहुना ?, तादृशदे
शान्तरस्थग्रामनगरादिषु विहारं विदधानश्चित्रकूटाचलदुर्गे प्राप्तः, यद्यपि तत्रत्यक्षद्वैर्भावितो लोकस्तथाप्ययुक्तं किमपि कर्तुं न । | शक्नोति, श्रीपत्तने श्रीगुरूणां महत्याः प्रसिद्धेः श्रवणात , ततो जिनवल्लभगणिना स्थानं याचिताः तत्रत्यश्राद्धाः, तैश्चोक्तं-चण्डि| कामठोऽस्ति यदि तत्र तिष्ठथ, ततो जिनवल्लभगणिना ज्ञातं-दुष्टाभिप्रायेणैवं भणन्ति, तथापि तत्रापि स्थितस्य देवगुरुप्रसादाद्भद्रं भविष्यतीतिचिन्तयित्वा भणितास्ते-तत्रैव बहु मन्यध्वं यूयं येन तिष्ठामः, तैरुक्तम्-अतीव सम्मतमस्माकं,तिष्ठथ यूयं, ततो देवगुरुन् संस्मृत्य देवतां चानुज्ञाप्य स्थिताः तत्र, देवता तेषां ज्ञानेन ध्यानेन संतुष्टा सती दत्तावधाना रक्षति, ते च श्रीजिनवल्लभवाचनाचार्या इत्यादि यावत् श्रावका अपि स्तोकं स्तोकेन समागच्छन्ति, ततः सिद्धान्तवचनानि श्रुन्वा तदनुमारेण क्रियामपि दृष्ट्वा साधारणसट्टासुमतिपल्हकवीरकमानदेवधंधकसोमिलकवीरदेवादिभिः श्रावकैः समाधिना श्रीजिनवल्लभवाचनाचार्यों गुरुत्वेन प्रतिपेदे, श्रीजिनवल्लभगणीशानां गुरूपदेशेनातीतानागतादिज्ञानं ज्योतिषज्ञानं चातिशयितमासीत् , भगवदन्तिके साधारणश्राद्धः परिग्रहपरिमाणं ग्रहीतुं प्रवृत्तः, गणिमित्रैः स उक्तः-कियन्मानं सर्वसंग्रहे करिष्यसीति ?, साधारणः-भगवन् ! सृतं विंशत्या ||२३६॥