SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२३५॥ गतो जिनवल्लभः प्रणतो गुरुः, पृष्टा क्षेमवार्त्ता गुरुणा कथिता यथोक्ता सर्वापि वार्त्ता, तेन ब्राह्मणसमीचीनज्ञाननिमित्तं मेघादिस्व| रूपाणि तथा ज्योतिषबलेन भणितानि कानिचिद्यथा गुरोरप्याश्चर्यकारीणि जातानि 'भृतपूर्वकस्तद्वदुपचार' इति न्यायाद्गुरुणेत्युक्तं, | पृष्टो गुरुणा - किमिति त्वं मध्ये नागतो ?, जिनवल्लभगणिनाऽभिहितं- भगवन् ! सुगुरुमुखा जिनवचनामृतं पीत्वा कथमधुना दुर्ग| तिगुप्तावात्मनः समुचितपाशं विषयवृक्षसदृशं चैत्यवासं सेवितुमिच्छामि ?, ततो गुरुणा भणितं - भो जिनवल्लभ ! मयेदं चिन्तित - मासीद्-यत्तुभ्यं स्वपदं दवा त्वयि स्वगच्छदेवगृहश्रावकादिचिन्तां निवेश्य पश्चात्स्वयं सुगुरुसमीपे वसतिमार्गमङ्गीकरिष्ये, ततो जिनवल्लभगणिना विकस्वरवदनारविन्देन भणितं - भगवन् ! अतीव शोभनमेतद्, विवेकस्य हीदमेव फलं यद् हेयपरित्यागेनोपा| देयमुपादीयते, तर्हि समकमेव सुगुरुसमीपे गम्यते, गुरुणेषनिःश्वस्य प्रत्यपादि-यदुत वत्स ! ईदृशी निःस्पृहता नास्त्यस्मार्क, | यया चिन्ताकरणसमर्थं पुरुषं विना गच्छदेवगृहवाटिकादिचिन्तां मुक्त्वा सुगुरुपार्श्वे वसतिवासमङ्गीकुर्म्महे, अवश्यं भवता विधातव्यं वसतिवसनं, जिनवल्लभगणिरपि तत्सम्मतेन पत्तने विजहार, श्रीमदभयदेवसूरिपादान् बह्नादरेण वन्दितवान्, सद्गुरूणाम| तिशयेन समाधानं समजनि, चिन्तितं च यथा परीक्षितस्तथैवैष जज्ञे, ततो मनसि विदन्तोऽपि न कस्यापि प्रतिपादयन्ति यदुत एष एवास्मत्पदयोग्यो, यतो देवगृहनिवासिशिष्य इतिहेतोर्गच्छस्य सम्मतं न भविष्यतीति, ततो गच्छाधारको वर्द्धमानाचार्यः स्व| पदे निवेशितः, जिनवल्लभगणेश्च क्रियोपसंपदं दत्तवन्त इत्यतः प्रभृत्यस्मदाज्ञया सर्वत्र प्रवर्त्तितव्यमिति, एकान्ते पुनः प्रसन्नचन्द्रा|चार्यो भणितः मदीये पदे भव्यलने जिनवल्लभगणिः स्थापनीय इत्येवं नवाङ्गीवृत्तिं वर्तिनीमिव मुक्तिनगरस्य भव्यजनेभ्यः प्रति| पाद्य सिद्धान्तोक्तविधिना समाधानेन देवलोकं गताः श्री अभयदेवमूरयः, प्रसन्नचन्द्राचार्यस्यापि सुगुरुपद निवेशन प्रस्तावो न जातः, जिनवल्लभवृत्तम् ॥२३५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy