________________
/
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२३४॥
A
Pa
PARKHANISAT
| जिनवचनवाचनां ददाति तथा तथा प्रमुदितचित्तः सन् स सुशिष्यः सुधारसमिव तामास्वादयति,हर्षोत्फुल्लपबसदृशं तं तादृशं शिष्यम- जिनवल्लमिवीक्ष्य गुरवोऽपि तोपपोपद्विगुणीकृतवाचनादानोत्साहा बभूवुः, किंबहक्तेन?,तथा२ ज्ञापनवुझ्या श्रीपूज्या वाचनां तस्मै दातुं प्रवृत्ताः ।। भवृत्तम् | यथा स्तोकेनैव कालेन सिद्धान्तवाचना परिपूर्णा जाता,तथा गुरोज्योतिषिक एकः पूर्वप्रतिपन्न आसीत् यदि भवतां कश्चिद्योग्यः शिष्यो | भवेत् तदाऽसौ मद्यं समर्पणीयो येन तस्मै समग्रज्योतिषं समर्पयामि,ततः पूज्यैर्जिनवल्लभगणिः समपितः,तेनापि जिनवल्लभाय ज्यो| तिषं सपरिज्ञानं समपितम् , एवं च गृहीतसिद्धान्तवाचनः सिद्धान्तोक्तक्रियासम्यगनुष्ठानबद्धमानसः सम्यगधिगतसस्फूर्तिज्योतिषः | स्वगुरोः समागमनाय मुत्कलवचनं प्रतीच्छति, प्रभुभिरभिहितं वत्स ! सिद्धान्तोक्तसाधुसमाचारस्तावत्समस्तोऽपि त्वयाऽवगतोऽत|स्तदनुसारेण क्रियोद्धारेण यथा प्रवर्तसे तथा विधेयं, श्रीजिनवल्लभगणिना पादयोनिपत्य भणितं-यथा पूज्यपादा आज्ञापयन्ति | तथैव निश्चितं प्रवतिष्ये, प्रधानदिने च चलितो,यथागतमार्गेण पुनर्मरुकोट्टे प्राप्तः, आगच्छता सिद्धान्तानुसारेण देवगृहे विधिलिखितो येन विधिना विधिचैत्यमपि मुक्तिसाधनं, विधिचैत्यस्य विधिरयं-"अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जातिज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमित्याज्ञात्रेयमनिश्रिते विधि|कृते श्रीजैनचैत्यालये ॥१॥" इत्यादिविधिविधेयो येन सर्व चैत्यवन्दनाद्यनुष्ठानं मुक्तये संपद्यते इति, ततोऽसौ गुरुसमीपे गन्तुं प्रवृत्तः, प्राप्तो माइडामे, आसिकादग्दर्वाक क्रोशत्रये स्थितः, तत्रैव गुरोमीलनाय पुरुषः प्रेषितः, तस्य हस्ते लेखो दत्तो यथा युष्मत्प्रसादतः सुगुरुसमीपे वाचनां गृहीत्वा माइडाग्रमे अहं समागतोऽस्मि, पूज्यः प्रसादं कृत्वात्रेवागत्य मम मीलनीयं, ततो गुरुमिरज्ञायि-किमिति जिनवल्लभेनेत्थं निर्दिष्ट ?, नात्रागतोऽभवत?,ततो द्वितीयदिने सकललोकेन सार्द्ध समायात आचार्यः, अभिमुखं
॥२३४॥
MARACTRE PRILMIBUPAPALI
ELLIP