SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवबनपरीक्षा ३विश्रामे ॥२२७|| 'निजनिजाचारभाषकं स्वकीयस्वकीयमार्गप्रणेतारं परमेश्वरं भणति, एवं च सति परमेश्वराचारयोः प्रामाण्यं परस्परप्रामाण्यसापेक्षं, कुपाक्षिकातश्चैवं-परमेश्वरे प्रामाण्यं स्वाभिमताचारप्ररूपकत्वादेव, आचारे च प्रामाण्यं तथाविधपरमेश्वरप्ररूपितत्वादेव, परमेश्वरस्याप्रामाण्ये णां ध्यान आचारस्याप्यप्रमाण्यमाचारस्याप्रामाण्ये च परमेश्वरस्याप्रामाण्यमेवेति परस्परसापेक्षता,सा च विचार्यमाणा परमेश्वराचारयोः कथंचिदैक्यमेव सूचयति स, अतः स्वाचारानन्यरूपत्वात्परमेश्वरध्यानमकिश्चित्करमेव मिथ्यादृशां, तथा आकारं पुनः ब्रह्मेश्वरादिवि|म्बरूपाणि भणति,ननु भो भवतां परमेश्वरस्य कीदृगाकार इत्येवं प्रेरितो भणति कश्चिद् ब्रह्ममूर्ति कश्चिदीश्वरलिङ्गम् आदिशब्दानारायणादिमूर्तिप्रभृतिकम् , एवं च सति नाम्नैकत्वेऽपि निजनिजाचाराकारध्यानपारतन्त्र्यानिजनिजमतक्रियाजन्यमेव फलं परमेश्वरध्यानेऽपीतिगाथार्थः ॥१३५।। अथोक्तं दृष्टान्तं प्रकृते योजयितुमाह एवं कुवखवग्गो पुच्छिज्जतोऽवि भणइ अम्हाणं । सद्दहणाइसमा जे ते अरिहंताइणोऽभिमया ॥१३६॥ । एवमुक्तन्यायेन कुपाक्षिकवर्गः पृच्छयमानोऽपि भणति-येऽस्माकं श्रद्धानादिसमास्ते एवाईदादयोऽमिमताः-नमोअरिहंताणमित्यादिनमस्कारावल्या स्मर्यमाणास्तथाभूता एव ध्यानगोचरीभवन्ति, न पुनरतत्श्रद्धानभाजो, न वाऽस्मद्विपरीतमुपदिशन्तोऽपीति स्पष्टमेव नमस्कारं जपन्तोऽपि प्रतिसमयमनन्तभवभोग्यं क्लिष्टकर्मार्जयन्तीति गाथार्थः ॥१३६ ।। इतिगाथाष्टकेन नमस्काराध्ययने योग्यायोग्यविचारं विधाय योग्यस्यैव नमस्काराध्ययनाध्यापने योग्ये, नान्यस्येति प्रदाथोपधानमपि कथं | जिनाति दर्शयतिउवहाणं पुण नाणा जह तह रइमि जेण केणावि । किंतु रयणाविसेसे पुरिसविसेसेण जहजुग्गं ॥१३७॥ | ॥२२७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy