SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ कुपाक्षिकाणां ध्यान श्रीप्रव. चनपरीक्षा इविश्रामे ॥२२६॥ m यत्तदोनित्यामिसंबन्धात् यत्-यस्मात्कारणादईदादीनपि स्वस्वमतानुरक्तानेव मनसि कृत्वा कुपाक्षिकवों ध्यायेत् ,न चाहदादयः कुपाक्षिकविकल्पितमार्गश्रद्धानभाजो भवन्ति, तेन तत्तथावचनं महताम्-अर्हदादीनां कलङ्कदानमेवेति महापातकं,वस्तुतस्तु तथाविधाचारपरिकल्पनाकाल एव तथाविधाचारप्ररूपकाणामर्हदादीनामपि तद्वत्कल्पनासंभवाद् ,अन्यथा स्वाचारस्य प्रामाण्यं वक्तुमशक्यत्वाद् ,अत एव तथाविधाचाराहदादीनां कल्पना महापातकमितिगाथार्थः।।३३।। अथ नाम्ना साम्येऽपि भिन्नत्वे दृष्टान्तमाह..परमेसरुत्तिनाम जह एगं भिन्नभिन्नअत्थजुअं। निअनिअमयफलहेऊ आयारायारझाणवसा ॥३४॥ परमेश्वर इत्येकं नाम 'भिन्नभिन्नार्थयुत निजनिजाचारप्ररूपकत्वेन विकल्पितानेककोटिपरमेश्वरवाचकं निजमतफलहेतुर्भवति, |कस्माद् ?-आचाराकारध्यानवशाद् ,आचार:-सन्ध्यावन्दनाग्निपूजादिलक्षणः आकारः-शङ्खचक्रत्रिशूलगदादिप्रहरणभृद्विचित्रवाहनलिङ्गादिस्वरूपः, आचारचाकारश्च तयोर्ध्यानमस्मदीय आचारः कीदृगाकारभृता केन प्ररूपित इत्यादि मनसा चिन्तनं तद्वशाततत्पारतन्त्र्याद् , अयं भावः-बौद्धादीनां सर्वेषामपि यो देवः स परमेश्वरत्वेनैवाभिमतः, तच्च नामैकमपि निजनिजविकल्पनानुसारेणानेकसंकेतवशान्नानार्थ संपन्न, तन्नाम्नो ध्यानं कुर्बाणा अपि निजनिजाचारप्ररूपकं तथाविधविचित्राकारवती च मूर्ति ध्यायति, तद्ध्यानं च तन्मतश्रद्धानाद्यात्मकमेवेतिकृत्वा यद्यत्फलं तत्तन्मताचाराराधनेन, तदेव ध्यानेनापि, तदनन्यपरिणामरूपत्वादितिगाथार्थः ॥१३४।। अथ तथाविधपरिणामाविष्करणायोपायमाह पुच्छिज्जतो लोओ निअनिअआयारभासगं भणई। आयारं पुण बंभेसरमाइअर्षियरूवाई ॥१३॥ लोको यावान् कुश्रद्धानः स च 'पृच्छयमानः' प्रश्नविषयीक्रियमाणः नन भोः को भवतां परमेश्वर इत्यवंरूपेण प्रेर्यमाण इत्यर्थः, mmaNPROPRIALI HIRUSHPatianelonisment
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy