________________
याणा
हरणानि
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१९॥
उपधानमाचारो-ज्ञानाचारः, सच सूचामात्रेणानेकेषु सूत्रेषु “वसे गुरुकुले निचं, जोगवं उवहाणवं" इत्यादिरूपेषु, किंचिद्विस्तरवचनं महानिशीथे, तत्र को दोषो ?, न कोऽपीतिगाथार्थः ॥११६॥ अथ योगोपधानविषये उदाहरणान्याह
जोगे आसाढारिअसीसपमुहावि हुंतुदाहरणं । उवहाणि उसभदत्तो जिणदत्तो भायरा दोऽवि ॥११७॥
योगे आषाढाचार्यशिष्यप्रमुखाः उदाहरणं भवन्ति, तव्यतिकरस्तूत्तराध्ययनटीकातोऽवसेयः, आदिशब्दादाचामाम्लतपोऽभिग्रहेणासंख्येयाध्ययनाध्येतसाधुरपि, उपधाने च ऋषभदत्तजिनदत्तौ द्वावपि भ्रातरौ आचारप्रदीपायुक्तौ बोध्यावितिगाथार्थः ॥११८॥ अथ प्रकारान्तरेणैव पूर्वपक्षी पाहसुअखंधे अज्झयणा इच्चाई आगमे कमो दिहो। अज्झयणे सुअखंधो महानिसीहित्ति तं न मयं ॥११८॥
श्रुतस्कन्धे अध्ययनानि इत्यादिः क्रमः आगमे-अङ्गादौ दृष्टः, श्रीमहानिशीथेऽध्ययने सामायिकलक्षणः श्रुतस्कन्धः नमस्का| रलक्षणः सामायिकाध्ययनैकदेशो नमस्कारः सोऽपि महाश्रुतस्कन्धतया तत्र भणित इति तत् श्रीमहानिशीथं न मतं-सम्मतं
नास्माकमिति पूर्वपक्षाशय इतिगाथार्थः ॥११८॥ अथोत्तरमाह| इअ चे पण्णवणाए पयंमि उद्देसया पया तेसु । लेसापयंभि साविअ कहं पमाणं तुहं होइ? ॥११९॥ , ___'इ' इतिचेत्तर्हि प्रज्ञापनायां लेश्यापदे उद्देशका भणिताः, तेषूद्देशेषु च पदा इति प्राकृतत्वात् पुंस्त्वं पदानि विभक्त्यन्तानि प्रतीतान्येवेति कथं सापि च-प्रज्ञापनाऽपि च तव प्रमाणं भवेत् ?, न कथमपि,क्रमभङ्गादितिगाथार्थः ॥११९।। अथ नमस्कारस्तावत्सर्वश्रुताभ्यन्तरभूतः, यतः सर्वस्यापि श्रुतस्याचं सामायिकसूत्रं, 'सामाइअमाइआई इक्कारस अंगाई'न्ति वचनात् , सामायिकसूत्रं
mai HINITIdall- familyHIRPION
neHIMIRHANIHINDIPPITIANP