________________
श्रीप्रव. चनपरीक्षा ३विश्रामे ॥२१८॥
उपधानेन्यश्रुतसाक्षी
PRIMA
R
ननु भो यथा श्रीमहानिशीथे उपधानविधिन तथा अन्यत्र कुत्रापि दृश्यते तेन कारणेनास्माकमप्रमाणम् , अर्थात्तन्महानिशीथमितिगाथार्थः ॥११३॥अथोत्तरमाह
जइ एवं ता सत्वं परिहरिअवं सुअंपि तुझ मए । लेवोवासगपमुहा पायमिकिकसुत्तुत्ता ॥११४॥ । यद्येवं प्रागुक्तं तहिं तव मते सर्वमपि श्रुतं परिहर्त्तव्यं भवेत् , तत्कथमित्याह-लेपोपासकप्रमुखाः-श्रीसूत्रकृदङ्गद्वितीयश्चतस्कन्धोक्तलेपश्रावकप्रमुखाः प्रायो-बाहुल्येनकैकसूत्रोक्ताः-एकैकस्मिन् सूत्रे पठिताः सन्ति, नहि लेपश्रावकवर्णनमन्यत्र तथोपलभ्यते, तथा च द्वितीयाङ्गमपि परिहत्तव्यम् , एबमाचाराङ्गादयोऽपि, न ह्याचाराङ्गोक्तः सर्वोऽपि विचारः सर्वत्रोपलभ्यते,तथोपलम्भे च | सर्वेषामप्यैक्यापत्तेरित्यादि स्वयमेव पर्यालोच्यमितिगाथार्थः ॥११४।। अथ प्रवचनस्वरूपमाह
तम्हा जिणिंदसासणमायरिअपरंपरानुवहिजं । तेणिव सूआबहुहा कस्स यऽसूआवि सूरिपहा ॥११५॥
तस्मात्कारणाज्जिनेन्द्रशासनमाचार्यपरम्परानुवर्तनीय, आचार्यपरम्परामन्तरेण न किमप्यनुष्ठानं श्रुतं वा भवेत् , किंतु तदायत्तमेव, तेन कारणेन सूचा-शास्त्रेधूपधानादिक्रियाणां नामोच्चारादिना सूचनं 'बहुधा अनेकप्रकारा स्यात् , कस्यचित् क्रियाविशेपस्यासूचा-सूचनाभावः, सापि 'मूरिपथा' सूरिरेव पन्था यस्याः सा तथा, यद्यप्यागमे नोपलभ्यते तथापि सूरिपरम्परया समागता, अयं भावः-क्वचित् किश्चिन्नाममात्रेणोपलभ्यते तदेव क्वचित्किञ्चिद्विस्तरेणेत्यादि, किश्चिञ्च नाम्नाऽपि नोपलभ्यते, तस्य केवल सविस्तरक्रियाकरणस्येव परम्परैव मूलं, नान्यदितिगाथार्थः ॥११५॥ अथ प्रकृतमाह
आयारो उवहाणं सूआमित्तेण णेगसुत्तेसु । किंचिवि वित्थरवयणं महानिसीहंमि को दोसो ॥११६॥
itaIRITALIRAMAmARATHIRAMAIRAIL
PALI
॥२१८॥