________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१७॥
आगमव्यवहारिणां श्रुतानपेक्षा
AIRLIAMARISHAIRMIRMIndiaIALIMARINAARILALITILPANANHITINETRINJARILAMMA
क्षया प्रकारान्तरविधिना वा एकादशाङ्गीमध्यापितवन्तः स्थविराः,यदागम:-"तए गंधण्णे अणगारे समणस्स भगवओ महावीरस्स | तहारूवाणं थंराणं अंतिए सामाइअमाइआई इक्कारस अंगाई अहिजति२ संजमेणं तवसा अप्पाणं भावमाणे विहरति' इत्यादि यावत् | 'मासिआए संलेहणाए नवमासपरिआओ जाव कालमासे कालं किच्चा उड्ढंचंदिमजावनवगेविजविमाणपत्थडे उड्ढं दूरं वीतीवतित्ता सबट्ठसिद्धे विमाणे देवत्ताए उववण्णे"त्ति श्रीअनुत्तरोपपातिके (१६७०३-४-५) अत्र नवमासपर्यायेऽपि धनर्षिरेकादशाङ्गधरः कथितः, स च श्रुतव्यवहारानुगतयोगानुष्ठानवान्न संभवति, तावता कालेन योगानुष्ठानासंभवात् , तथा "तिवरिसपरिआगस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पनाममज्झयणमुद्दिसित्तए" इत्यादिपर्यायप्राप्तेरप्यसंभवात् , तेन यथाऽत्र पर्यायप्राध्यभावेऽपि तदध्ययनं तथा योगाद्यभावेऽपि, यद्वा आगमव्यवहारिणा अन्यः कोऽपि योगविधिः कारितो भविष्यति, परं न स श्रुतव्यवहारि| णाऽनुष्ठेय इति तात्पर्यमितिगाथार्थः ॥१११॥ अथागमव्यवहारापेक्षा श्रुतव्यवहारिणो न युक्ता, तदपेक्षायां च दोपमाह
न तहा सुअववहारी तयविक्खे अण्णहोवएसिज्जा । वेसाघरचउमासं सीसं संभूअविजउच्च ॥११२॥ - यथा आगमव्यवहारिणा श्रुतमध्यापितं तथा तदपेक्षः-आगमव्यवहारापेक्षः श्रुतव्यवहारी न स्याद् , अन्यथा तदपेक्षायां |संभूतविजयवच्छिष्यं प्रति वेश्यागृहे चतुर्मासिकमुपदिशेत् , यथा आगमव्यवहारिणा श्रीसंभूतविजयस्वामिनोपकोशागृहे चतुर्मासं| श्रीस्थूलभद्रस्योपदिष्टं तथा श्रुतव्यवहारिणाऽप्युपदेष्टव्यमापद्यतेत्यर्थः, तच सर्वेषामप्यसम्मतमितिगाथार्थः॥११२॥ अथ पुनरपि श्रीमहानिशीथेऽप्रामाण्यं व्यवस्थापयितुं शङ्कतेनणु जह महानिसीहे उवहाणविही तहा न अण्णत्थ । कत्थवि दीसइ तेणं हविज अपमाणमम्हाणं ॥११३॥
॥२१७॥