________________
श्रीप्रववनपरीक्षा ३ विश्रामे
॥२१६ ॥
नामज्झयणा उदिसित्तए, अट्ठवासपरिआगस्स० नि० ठाणसमवायए णामं अंगे उ०, दसवास० परि सम० नि० कप्पड़ विवाहपण्ण अंगे उ० इत्यादियावत् वीसतिवासपरि० सम० निग्गंथे सबसुआणुवाई भवति "त्ति । श्रीव्यवहारसूत्रे ( 1३ - १०० २२-३६) एवं च सति कथं तथाविधं श्रुतमुपधानाद्युपयोगीति, सामायिकादिसूत्राणां तथास्त्रभावाद्, अत एवाधीतसामायिकादिसूत्राणामेव | साधूनां योगोद्वहनविधिरनादिप्रवाहपतितो दृश्यते, अनादित्वं चतुर्द्दशीप्रवर्त्तकाचार्याभिधानाभाववदेतत्प्रवर्त्तकस्याप्याचार्यस्याभिधानाभावादिति नातिप्रसङ्ग इति गाथार्थः ॥। १०९ ।। अथोपधानरूपसूत्रोपचारक्रिया सर्वषां नियता उत नेत्याकाङ्क्षायामाह - | सुत्तोवयारकिरिआ सुअववहारीण तित्थकरकहिआ। आगमवत्रहारीणं बलिआणं नेवमवि निअमो ॥११०॥
सूत्रोपचारक्रिया - उपधानरूपा 'श्रुतव्यवहारिणां' आगमादिव्यवहारपञ्चकमध्ये द्वितीयव्यवहारमाश्रितानाम्, एवकारोऽध्याहार्यः, तेषामेव, 'तीर्थकरकथिता' जिनेद्रैरुपदिष्टा, आगमव्यवहारिणाम्-अवधिमनः पर्यायकेवलज्ञान चतुर्द्दशदशनवपूर्वभृतामेवमुपधानक्रिया कर्त्तव्येत्येवं न नियमः, अपिशब्दात्पुरुषविशेषं प्रतीत्य भवत्यपि, नियमाभावे हेतुमाह - 'बलिआणं'ति यतस्तेषां किंलक्षणानां ? - बलिकानाम् - आगमव्यवहारिणो बलिष्टाः - शेषव्यवहारापेक्षया बलवन्तः, यदागमः - " आगमबलिआ समणा निग्गंथ "त्ति (१० - ४२१) श्रीस्थानाङ्गे इति गाथार्थः ॥ ११०॥ अथागमव्यवहारिणः स्वरूपमाह -
जं आगमवबहारी सुअनिरविवो पडच कंपि नरं । अज्झाविज्जुवहाणं विणेव जह घण्णमणगारं ॥ १११ ॥ यद्–यस्मादागमव्यवहारी ‘श्रुतनिरपेक्ष:' श्रुतस्य- आचाराङ्गादेर्निर्गताऽपेक्षा - तदनुसृत्य प्रवृत्तिर्यस्य स तथा, कमपि - कञ्चिनरं - साध्वादिलक्षणं प्रतीत्य- आश्रित्योपधानं विनैवाध्यापयेद् यथा धन्यमनगारं-धन्यर्षिनामानं योगोद्वहनमन्तरेण श्रुतोक्तविध्यपे
आगमव्य
वहारिणां
योगानियमः
॥२१६॥