________________
d
S
श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१५॥
श्रुतस्य क्रियार्थमभ्यासः
ad
e TIPTISHISHED Headline s
IRIAuthamPIRINIRAUDPURIHINDPAL .
पद्येत, तस्माच्छ्राद्धानामुपधानेषु पौषधग्रहणादिविधिोगविधिवत् प्रमाणयितव्य इति सिद्धं नमस्काराद्यभ्यासः पोषधक्रियाहेतुत्वेन नमस्कारादिश्रुताराधनहेतुरेव, एवं श्राद्धवच्छैक्षेऽपि-नवदीक्षितशिष्येपि श्रीआवश्यकयोगक्रियार्थ-श्रीआवश्यकश्रुतस्कन्धाराधनक्रियानिमित्तमेव सामायिकादिषड्जीवनिकापर्यन्तं श्रुतं मत-सम्मतं, ज्ञेयमिति गम्यमिति गाथार्थः ॥१०८॥ अथोपधानोद्वहनाकासन्या सामायिकाद्यध्ययनमभ्युपगम्यते तहिं कथं नाचाराङ्गादिष्वपीत्यतिप्रसङ्गं निवारयन्नाहजं आवस्सयखंधो उवजुजइ निअपरेसि किरिआसु । दीवुव तेण पढम अहिकिज्जइ न उण सेससुअं॥१०९||
यद्-यसादावश्यकश्रुतस्कन्धो निजपरयोः क्रियासु-श्रीआवश्यकश्रुतस्कन्धतदतिरिक्तश्रुताराधनक्रियामपयुज्यते-उपयोगी | स्यात् तेन कारणेन दीपवत्प्रथममधिक्रियते, उपधानयोगोद्वहनात् तत् पूर्वमेवाभ्यस्यते, न पुनः शेषश्रुतम्-आचाराङ्गादिश्रुतमि त्यक्षरार्थः, भावार्थस्त्वयम्-आवश्यकश्रुतस्कन्धो ह्यभ्यस्तः आवश्यकश्रुतस्कन्धस्यैवाराधनहेतवे यान्युपधानानि तत्संबन्धिनीषु क्रियासूपयोगी स्याद् , अन्यथा तद्विधेरेवासंभवात् , तथा परक्रियासु श्रीआचाराङ्गप्रमुखाखिलश्रुताराधनहेतुयोगक्रियास्वपि, तत्र दृष्टान्तमाह-यथा प्रदीपः, स हि स्वपरविषयकप्रकाशनक्रियोपयोगी अहं प्रदीपं घटादिकं च पश्यामीति प्रदीपघटादिदिक्षुणा संतमसे प्रथमं प्रदीप एवाधिक्रियते,प्रथमं प्रगुणीक्रियते(च),प्रदीपमन्तरेणोभयोरपि प्रकाशासंभवात,न पुनस्तद्वच्छेषमाचाराङ्गादिश्रुत| मुपधानयोगाभ्यां पूर्वमभ्यसनीयं, यतो नाचाराङ्गादिश्रुतं खोपधानक्रियोपयोगि नवा परोपधानक्रियोपयोगि,किंच-आचाराङ्गाद्यध्ययनं प्रवजितस्यापि वर्षत्रयपर्यायाचतिक्रमेऽनुज्ञातं, यदुक्तं-"तिवरिसपरिआगस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पनाममज्झयणं उद्दिसित्तए, चउपरिसपरिआगस्स०नि० सुत्तगडे नाममंगे उ० पंचवासपरिआगस्स सम०नि० दसाकप्पञ्चवहारा
FamIIMPIRITAPAINTAINIDHARI NAUpamammila
||२१५॥