SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे २१४॥ | नमस्कारादिषड्जीवनिकाय पर्यन्तमध्यापयेच्छ्रतमितिगम्यं यदुक्तं [ निशीथचूण ] - सावगस्स जहन्नेणं तं चेत्र, उक्कोसेणं छजीवणिया सुत्तओवि अत्थओवि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेण पुणई' आवश्यकचूर्णौ ( ३. १९० चूर्णौ ) ॥ १०६ ॥ अथोपधानत्रहनाशयाऽपि उपधानविधिमन्तरेण कियच्छ्रुतमध्येतव्यमित्याह- जं जीए किरिआए उवओगी तं तयट्टमाणन्ति । तेणमुवहाणजोग्गं अहिज्ज अन्भासबुद्धी ॥ १०७॥ यद् यस्याः क्रियाया उपयोगि-तद्धेतुभूतं तदर्थं तस्याः क्रियाया निमित्तं तत् - तावन्मात्रमध्येतव्यमित्याज्ञा, नाधिकं, तेन | कारणेनाभ्यासबुद्ध्या, तद्धेतुभूतक्रियाशुद्ध्यर्थमित्यर्थः, उपधानयोग्यं यावदुपधानोपयोगि तदधीयेतेति गाथार्थः ॥ १०७॥ अथो|पधानोपयोगि श्रुतमुपधानमन्तरेणाप्यधीयेतेत्यतः किं संपन्नमित्याह तेण उवहाणकिरिअ पोसहपमुहावि जुज्जए तेसिं । एवं सेहेऽवि सुअं आवस्सअजोगकिरिअट्ठा ॥ १०८॥ येन कारणेनोपधानो नाशया नमस्कारादि श्रुतमभ्यस्यते तेन कारणेन पौषधप्रमुखाद्युपधानक्रियाऽपि युज्यते तेषां श्रावकाणां, तथाविधश्रुताभावेन पौषधादिक्रियाया एवासंभवात्, ननु श्रीमहानिशीथे तपोमात्र मेवोपधानमुक्तं कथं तर्हि पौषधादि| क्रियानिमित्तमभ्यास इति चेदुप्यते, यद्यपि श्रीमहानिशीथे पौषधादिक्रिया साक्षान्नोक्ता, तथापि यथा साधोर्योगेष्वतिशायिक्रियावच्वं सर्वप्रतीतं तथा श्राद्धानामप्युपधानेषु विलोक्यते तच्च निरारम्भत्वादिगुणैरेव ते च सम्यक् पौषधस्वीकार एव स्युर्नान्यथा, अत एव पूर्वाचार्यप्रणीतेषु सामाचार्यादिप्रकरणेषूपधानविधौ च साक्षादेव पोषधादिश्यते, न च सामाचारीग्रन्थो नास्माकं प्रमाणमिति वाच्यं, यतो योगविधिरपि सामाचारी ग्रन्थेष्वेवोपलभ्यते, न पुनः क्वापि सिद्धान्ते, तथा च योगविधिरपि परिहर्त्तव्य आ श्रुतस्य क्रियार्थ मभ्यासः ॥२१४ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy