________________
श्रीप्रव
चनपरीक्षा ३विश्रामे ॥२०६॥
श्रीमहानिशीथप्रामाण्यम्
अथ महानिशीथसूत्रमेव नास्माकं प्रमाणमिति यत्तदाशादर्वचनं, तत्रैवं प्रष्टव्यं-ननु भो राकारक्त! तदपि-अप्रामाण्यमपि | किं खबुख्या उत पूर्वाचार्यवचनेन वा १, श्रीहरिभद्रसूरिप्रभृतिप्रसिद्धपूर्वाचार्यवचसा वा उच्यते, तत्रादिमः-खबुयेति प्रथमो | विकल्पोऽधमो-नीचः, अल्पज्ञस्याप्यनुपादेय इत्यर्थः, नहि निजमतिविकल्पना कस्यापि प्रमाणं स्यात, सर्वज्ञवचसामेवाखेयत्वा|दितिगाथार्थः ॥१०॥ अथ पूर्वाचार्यवचसेति द्वितीयविकल्पे दोषमाह
बीए जावयमित्तं जह भणिअंतं तएवि भणिअछ। ऊणमहिअंव भणणं तित्थासायण महादोसो ॥११॥ |
द्वितीयविकल्पे यावन्मात्रं यथा भणित,पूर्वाचार्यैरिति बोध्यं,तत्तावन्मानं त्वयाऽपि भणितव्यम् ,ऊनमधिकं वा भणनं तीर्थाशा| तनालक्षणो महादोषः, तीर्थेन यद्यथाऽभ्युपगतं तदन्यथाभणने तस्याशातना महती, अनन्तसंसारहेतुत्वादिति गाथार्थः॥९१॥ | अथ श्रीमहानिशीथमधिकृत्य पूर्वाचार्यभणितमाह। हरिभद्दवयणमेअं पुवायरिआण चउत्थमायणे । कतिपयपयाण सम्म सद्धा नो तेणमम्हंपि ॥१२॥ . हरिभद्रवचनं श्रीहरिभद्रसूरिवचनमेतद्-वक्ष्यमाणं, किं ?-श्रीमहानिशीथे चतुर्थाध्ययने कतिपयपदानां श्रीसिद्धसेनदिवाकरप्रभृतीनां सम्यक्श्रद्धानाभावः केषांचित्तु सम्यक् श्रद्धानं नासीत् तेनासाकमपि सम्यक्श्रद्धानाभावः, केषांचित्तु सम्यक्पदानमित्यर्थः, यदुक्तं "अत्र चतुर्थाध्ययने बहवः सैद्धान्तिकाः कांश्चिदालापकान् न सम्यग् श्रद्दधति, एवं तैरश्रद्धानरमाकमपि न सम्यश्रद्धानमित्याह श्रीहरिभद्रसूरिः, न पुनः सर्वमेव चतुर्थाध्ययनमन्यानि वाऽध्ययनानि, चतुर्थाध्ययनस्यैव कतिपयैः परिमितैरालापकैरश्रद्धानमित्यर्थः, यतः स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचचख्ये यथा प्रतिसंतापस्थलमस्त्रि
॥२०६॥