________________
उपधानसिद्धिः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९५॥
MARATHI Similianimammunittim TRANSIBIPIN MAHARASHTRAILWAIMANSHAIRAGININGHAILASH
i lam manisiltin
निषेधानुपलब्धेः, अपरः चः पुनरर्थे सिद्धान्ते भणित्यभावलक्षणो द्वितीयो विकल्पः, किंलक्षणः १-द्विविकल्पः, वक्ष्यमाणो द्वौ | विकल्पौ यस्य स तथा, द्विविध इत्यर्थः इतिगाथार्थः ॥८७॥ अथ द्वितीयविकल्पस्य द्वैविध्यमाह
नामपि नत्थि किं वा करिजमाणो विही न सिद्धते । पढमुख होइ पढमो जं उवहाणंति समवाए ॥८८॥ __अथ सिद्धान्ते उपधाननामापि नास्ति उत क्रियमाणविधिर्नास्ति?, तत्र प्रथमो विकल्पः प्रागुक्तप्रथमविकल्पवदसिद्धिराक्षसीग्रस्तः, यतः समवाये-समवायाङ्गे उपधाननामास्ति, समवायाङ्गे उपासकदशाङ्गस्वरूपप्ररूपणाधिकारे साक्षादेव श्रावकाणामुपधानान्युक्तानि, तथाहि-उवासगाणं च सीलवयवेरमणगुणपच्चक्खाणपोसहोववासपडिवजणयाओ सुअपरिगहो तवोवहाणाई पडिमाओ" इति समवायाङ्गसूत्रे पत्रे ३७ सर्वपत्र ५० (११-१४२) अत्र वृत्त्येकदेशो यथा-श्रुतपरिग्रहास्तषउपधानानि-प्रतीतानि, उपलक्षणाद्वयवहारवृत्तावपि यथा 'श्रुतग्रहणमभीप्सता उपधान कार्यमिति,तथा “वसे गुरुकुले निचं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लडुमरिहति (७-३४०*) श्रीउत्तराध्याये११, तद्वृत्त्येकदेशो यथा योजनं योगोः-व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशयने मतुप् , यद्वा योगः-समाधिः सोऽस्यास्तीति योगवान ,प्रशंसायां मतुप् , उपधानम्-अङ्गा-|| नङ्गाध्ययनादौ यथायोगमाचामाम्लतपोविशेषस्तद्वानिति श्रीउत्त० बृहद्वृत्तौ, तथा 'तवोवहाणमादाय, पडिमं पडिवजओ। एवंपि विहरओ मे, छउमं न नियट्टइ ॥१॥(७-८१७)त्ति । श्रीउत्तरा०२,एतद्वृत्त्येकदेशो यथा-तपो भद्रमहाभद्रादि उपधानम्आगमोपचाररूपमाचामाम्लादि आदाय-स्वीकृत्य चरित्वेतियावदित्यादि श्रीउ० बृ०, तथा-काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए अट्ठविहो णाणमायारो ॥१॥ (द०नि० १८६) इति द्वारगाथायां चतुर्थद्वारगाथा यथा
R IBHITADVANIMALINITIHainine
BIHammilan
॥१९५॥