SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ EMAIN उपधान सिद्धि श्रीप्रा. चनपरीक्षा ३विश्रामे ॥१९४॥ mmmmHIRILWARAI Amalnital ILAIMPRILAPARNAL HDHINImamicmantic ha |पयोगित्वेनाकिश्चित्कर एव तेन कारणेनैव यथा भाद्रपदपञ्चम्यां पर्युषणा रूढा-प्रवचने सर्वजनप्रतीता इत्यमुना प्रकारेण तथा चतुर्दशीदिने पाक्षिकं पर्व सर्वज्ञैः समुक्तं, सम्यक् प्रकारेण भणितमित्यर्थः, एतेन बालचेष्टितकाचपिच्यकल्पं स्तनिकशतपदीकारोक्तमपि तिरस्कृतमिति बोध्यमितिगाथार्थः ।।८५।। अथ चतुर्दशी परित्यज्य पुनरपि चन्द्रप्रभाचार्यस्तत्प्रतिबद्धं किं त्यक्तवानित्याह चउदसिपखियभीओ परिहरइ महानिसीहसुत्तपि । तेणं उवहाणविही चत्तो उस्सुत्तरत्तेणं ॥८६॥ चतुर्दशीपाक्षिकभीतः श्रीमहानिशीथसूत्रमपि परिहरति स्मेति गम्यं, परिहरति स्म-त्यक्तवानित्यर्थः, श्रीमहानिशीथस्वीकारे चावश्यं पाक्षिकं चतुर्दश्यामभ्युपगन्तव्यं भवेत् , तत्र स्पष्टमेव पाक्षिकं चतुईश्यामुपलभ्यते, तच्च प्रागुक्तमिति बोध्यं, येन कारणेन श्रीमहानिशीथं त्यक्तं तेन कारणेनोत्सूत्ररक्तेन-तीर्थकुदुक्तापलापपातकासक्तेन चन्द्रप्रभाचार्यणोपधानविधिः-श्राद्धानां नमस्कारादिश्रुताराधनतपोविशेषविधिः, अपिगम्यः, सोऽपि त्यक्त इतिगाथार्थः ॥८६॥ अथ श्रीमहानिशीथव्यवस्थापनाय युक्तेर्वक्ष्यमाणत्वादुपधानविषये चन्द्रप्रभाचार्यः कथं प्रष्टव्य इत्याह णणु उवहाणाभावो पडिसेहा अहव भणियभावाओ। पढमो असिद्धिरक्वसिगसिओ अवरो अदुविगप्पो।।८७॥ ननु भोश्चन्द्रप्रभाचार्य! त्वया श्राद्धानामुपधानाभावः प्ररूप्यते तत्कि प्रतिषेधात्-सिद्धान्ते प्रतिषेधोपलम्भाद् अथो भणित्यभा| वात-सिद्धान्ते उपधानोक्तेरभावादिति विकल्पद्वयी प्रष्टव्या, तत्र प्रथमो विकल्पोऽसिद्धिराक्षसीग्रस्तः, तत्र प्रयोगो यथा-उपधानोद्वहनं श्राद्धानां नोचितं, प्रवचने प्रतिषिद्धत्वाद् , आलोचनायां पाण्मासाधिकतपोवदिति, अत्र प्रवचनप्रतिषिद्धत्वमसिद्धं, क्वाप्यागमे S PIRITUALITRAPARIRIRAHIMILANMARATHIBILIPPIRITRALIALIBAISHALISA ॥१९४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy