SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥१९३॥ अहवा कवडसंकंतिदिणे य संवच्छरी अ पडिक्कमणं । तुब्भ मए संसिद्धं चंदपण्णत्तिपमुहेहिं ॥ ८४ ॥ ' अथवे 'ति प्रागुक्तापेक्षया प्रकारान्तरद्योतकः, कर्कसंक्रान्तिदिने सांवत्सरिकप्रतिक्रमणं तव मते चन्द्रप्रज्ञत्याद्यागमैः सिद्धं, 'तुब्भ मए' तिपदेन नास्माकं मते सिद्ध्यतीत्यक्षरार्थः, भावार्थस्त्वयं - चन्द्रप्रज्ञत्यादौ कर्क संक्रान्तौ संवत्सरपर्यवसानं कथितं, तथाहि "जयां णं ते दुवे सूरिआ सङ्घबहिरमंडलं उवसंकमित्ता चारं चारंति तथा णं एगं जोअणसय सहस्सं छच्च सट्टे जोअणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं उत्तमकट्टपत्ता जाव राती भवति, जहण्णेणं दुवालस जाव दिवसे भवति, एस णं पढमे छम्मासस्स पजवसाणे, ते पविसमाणा सूरिआ दोघं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंती'त्यादि यावत् 'तया णं उत्तमकट्टपत्ते जाव दिवसे भवति, जहण्णिआ दुवाल मुहुत्ता राई भवति, एस णं दोचे छम्मासे, एअस्स गं दो|स्स छम्मासस्स पजबसाणे, एस णं आइचे संवच्छ रे, एस णं आइच्चस्स संवच्छरस्स पजवसाणे।" इतिश्रीचन्द्रप्रज्ञप्तौ चतुर्थप्राभृतकप्रान्ते पत्र १०, एवं सूर्यप्रज्ञप्तावपि (२८ - १५) अथ यदि तत्र सांवत्सरिकं नाभिमतमस्माकमितिचेत् तर्हि पाक्षिकमपि पञ्चदश्यां कथमभिमतमिति, युकेस्तौल्यादितिगाथार्थः ॥ ८४ ॥ अथोक्तयुक्तेरुपसंहारेण तात्पर्यमाह तेणिव पोसवणा भद्दवयपंचमीइ रूढत्ति । तह चउदसिदिणि पक्खिअपवं सवण्णुसंवृत्तं ॥ ८५ ॥ येन कारणेन ज्योतिष्करण्डचन्द्र प्रज्ञत्यादिषु यस्तिथिमासादीनां क्रमः प्रतिपादितः स चोक्तयुक्तिभिः पाक्षिकादिपर्वविचारेऽनु१ एवं खलु एतेणुवाएणं णिकखममाणा एते दुवे सूरिया ततोणंतराओ तदाणंतरं मंडलाओ मंडलं संकमेमाणा २ पञ्च२ जोयणाई पणतीसं च एगट्टिभाए जोयणस्स एगमेगे मंडले अन्नमन्नस्स अंतरं अभिवर्द्धमाणा २ सङ्घबाहिरं इति च पाठः संप्रति लभ्यमाने पुस्तके उपधानसिद्धिः ॥१९३॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy