________________
F
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१९२।।
पूर्णिमा| पाक्षिक| निरासः
RARIBanananthammedia
RIENDRAPARILAPAN Ratoppe
पाक्षिकप्रतिक्रमणमपि कालानियमेन कर्त्तव्यमापद्येत, एवं रात्रावपि भाव्यम् ,एवं युक्त्या चन्द्रप्रभाचार्यस्य सर्वत्रापि गलपाश इति गाथार्थः ॥८२॥ अथैवमुक्तेऽप्यभिनिवेशमत्यजन्तमतिप्रसङ्गेन दूषयितुमाह___ अण्णह सावणपमुहा मासा अहिणंदणाणामेहिं । भणिआ तेणासाढे पुण्णिम पज्जोसवणपर्व ॥८॥
अन्यथा यदि चन्द्रप्रज्ञप्त्याद्यनुसारेणैव पक्षस्यान्ते पाक्षिकप्रतिक्रमणमभ्युपगम्यते तर्हि चन्द्रप्रज्ञप्त्याद्यनुसारेणैव सांवत्सरिकपर्वापि आषाढपूर्णिमास्यामेव कर्त्तव्यमापयेत, तथाहि-"ता कहं मासा आहिताति वदेजा ?, ता एगमेगस्स णं संवच्छरस्स दुवालस मासा पं०, तेसिं दो नामधेज्जा भवंति-लोइआ लोउत्तरिआ य, तत्थ लोइआ णामा सावणे१ भद्दवए२ अस्सोए३ कत्तिए४ मग्गसिरे५ पोसे६ माहे७ फग्गुणे८ चित्ते९ वइसाहे१० जेठामूले११ आसाढे१२। लोउत्तरिआ णामा अभिणंदणे१ पढेर विजए३ पीतिवद्धणे४ सिज्जंसे५ सिवे६ सिसिरे७ हेमवं८ वसंतमासे९ कुसुमसंभवे१० णिदाहे११ वणविरोही१२ति, श्रीचन्द्रप्रज्ञप्ती दशमस्यैकोनविंशतितमे प्राभृतप्राभृतके,एवं सूर्यप्रज्ञप्तावपि बोध्यम् ,(२८-५३) एवं च सति संवत्सरान्ते भवं सांवत्सरिकमितिव्युत्पक्या आषाढे मासे पूर्णिमायां पर्युषणापर्व सांवत्सरिकातिचारालोचनादिक्रियाविशिष्टं कर्त्तव्यं स्यादितिगम्यम् , अयं भावः-यदि चन्द्रप्रज्ञप्त्यादिकं शरणीकृत्य पञ्चदश्यां पाक्षिकमभ्युपगम्यते, अभ्युपगम्यतां तर्हि तदेव शरणीकृत्याषाढसितपूर्णिमायां पर्युषणा| पर्वापि, अथ पर्युषणा न तथेतिचेत्तर्हि पाक्षिकमप्यास्तां, अथ पर्युषणापर्व भाद्रपदे पञ्चम्यामित्यागमे दृश्यते तथा परम्परापीति चेत्तर्हि पाक्षिकमपि चतुर्दश्यामागमे पूर्वनिर्दिष्टे दृश्यते,तथा परम्पराष्पीति स्वीक्रियतामिति प्रतिबन्दीनदी दुस्तरेतिगाथार्थः।।८३॥ अथ प्रकारान्तरेणाप्यतिप्रसङ्गमाह
९२॥