________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१८८॥
पूर्णिमापाक्षिकप्रतिषेधः
| पक्षोऽपीति युक्तिः सुखावबोधेतिगाथार्थः ॥७७॥ अथैवं सति पूर्णिमापक्षे किं संपन्नमित्याह- ... .
तम्हा पुण्णिमपक्खे छिन्नं तित्थं हविज निअमेणं । एवं सेसमएसुवि भाविजा सुहुमबुद्धीए ॥७८॥
यस्माच्चतुर्दशीपक्षात्पूर्णिमापक्षो निर्गतस्तस्मात्पूर्णिमापक्षे नियमेन तीर्थ छिन्नं भवेद् ,अयं भावः-श्रीवीरात्तद्विकल्पितकालकसूरिप्रभृतेर्वा चन्द्रप्रभाचार्य यावच्चतुर्दश्यां तीर्थमासीत् , तच्च पूर्णिमापक्षे तीर्थ न भवत्येवातस्तन्मते तीर्थस्य व्युच्छेदः संपन्नः, अथ तदानीं तत्तीर्थमेव, तर्हि तस्मिन् तादृस्वरूपेण विद्यमाने पूर्णिमापक्षस्य तीर्थबाह्यताऽनायाससिद्धा,अच्छिन्ने तीर्थे तदनभि| मतप्ररूपणातस्ततः पृथग्भवनाद्, एवम्-अमुना प्रकारेण शेषमतेष्वपि-औष्ट्रिकादिपाशपर्यन्तेष्वपि छिन्नं तीर्थ ज्ञातव्यं,तेषाममिप्रायेण स्वस्वमतोत्पत्तेरेव स्वाभिमततीर्थप्रवर्तनात्, न पुनस्तीर्थकरादारभ्याच्छिन्नप्रवृत्तिस्तेषां संभवतीतिगाथार्थः ॥ ७८ ॥ अथ | | नश्यतोऽपराधिनस्तृणावरणकल्पां कुयुक्तिमपाकर्तुमाह- ।। | जोइसकरंडपमुहे पडिवाइकमा तिहीण णामाई ।तत्तो पसिद्धपक्खिअपवनिमित्तं जिणुत्ताई ॥७९॥
ज्योतिष्करण्डप्रमुखे-ज्योतिष्करण्डचन्द्रप्रज्ञप्तिसूर्यप्रज्ञप्त्यादौ 'प्रतिपदादिक्रमात्' प्रतिपदमादौ कृत्वा क्रमेण यत्तिथीनां नामानि 'तत्तो ततो जैनप्रवचने प्रसिद्धपाक्षिकपर्वनिमित्तं-चतुर्थतपोविधानविशिष्टप्रवचनप्रसिद्धपाक्षिकपर्वपरिज्ञानार्थ जिने| नोक्तानीत्यक्षरार्थो,भावार्थस्त्वयं-पाडिवइ विइय तइआ चउत्थि तह पंममी अछट्ठी। सत्तमिअट्ठमि नवमीदसमी इक्कारसी चेव॥१॥ | बारसि तेरसि चाउद्दसी अनिट्ठवणिआ उ पन्नरसी। किण्हंमि अ जुण्हंमि अ एआओं तिही मुणेअबा|२॥ इति ज्योतिष्करण्डे (१०१-१०२) तथा दशमचतुर्दशे प्राभृतके "ता कहं ते दिवसाणं णामधेजा आहिताति वदेजा ?, ता एगमेगस्स णं पक्खस्स
॥१८॥