SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥ १८१ ॥ सा पर्यालोचना त्वेवम् - " अण्णह आगमुत्ताणि पुण्णिमाए "त्ति पदं प्रवचनेन सङ्गतीक्रियमाणं यदेवागमे पूर्णिमायामुपलभ्यते | इत्यादि प्रागुक्तं बोध्यं किंच- चतुर्थतपश्चैत्य परिपाटी प्रमुखपाक्षिककृत्यविशिष्टायाः पूर्णिमायाः क्वाप्यागमेऽनुपलम्भेन तवसेण पक्| खिआइणि चउदसीए आयरिआणि 'त्ति वाक्यं, “अण्णह आगमुत्ताणि पुण्णिमाए "त्ति पदेन सह अग्निना सिञ्चेत्यादिवाक्यवदसङ्गतमेव स्यात्, तस्मात् 'तबसेण य चउम्मासिआणि चउदसीए आयरिआणि 'त्ति जीर्णपाठ एव स्वभावसिद्धः क्षोदक्षमत्वात्, पूर्णिमायां चतुर्मासकस्यैव सिद्धान्तसिद्धत्वात्, तथासिद्धत्वं च 'तम्हा दोसद्देहिं'ति वक्ष्यमाणगाथाव्याख्यायां द्वितीयाङ्गसंमत्या दर्शयिष्यते, किंच- 'आगमुत्ताणि पुण्णिमाए 'त्ति पदं पूर्णिमापाक्षिकाभिप्रायेण प्रमाणीक्रियते तर्हि पूर्णिमातः पूर्णिमायां मासेन संभवात् मासिकं वक्तव्यं स्यात्, न पुनः पाक्षिकमित्यलं प्रपश्चेनेतिगाथार्थः || ६३ ॥ अथानन्तरोक्तगाथायामुत्तरार्द्धेन यदुक्तं तस्य तात्पर्यमाह, अथवाऽनन्तरोक्तगाथाद्वयस्य तात्पर्यमाह - तेणं चउदसीए पखिअसद्देण होइ पज्जाओ । न पुणो पुष्णिमदिवसे तवपमुहं पखिअं कज्जं ॥ ६४ ॥ येन कारणेन पाक्षिककृत्यविशिष्टा चतुर्द्दश्यागमे भणिता, अथवा येन गाथाद्वयोक्तसम्मतिप्रकारेण पाक्षिकचतुर्द्दशीशब्दयोः | पर्यायवाचितोक्ता, तेन कारणेन चतुर्दश्याः पाक्षिकशब्देन पर्यायो भवति, न पुनः पूर्णिमादिवसे तपः प्रमुखं पाक्षिककृत्यं, भणितमागम इति गम्यं, तेन कारणेन पूर्णिमादिवसे पाक्षिकशब्देन पर्यायो न भवतीत्यत्रापि संबध्यते इति परमार्थ इतिगाथार्थः ॥ ६४॥ अथ राकारक्तः शङ्कते - अह सावयअहिगारे चउपवीमज्झ गत्तिकाऊणं । कप्पिज्जइ निअमेणं तवपमुहो पक्खिओऽवि विही ||६५ || पूर्णिमापाक्षिकप्रतिषेधः ॥ १८१ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy