________________
श्रीप्रवचनपरीक्षा ३विश्रामे | ॥१७९।।
| पाक्षिकप्रतिक्रमणादि तद्विशिष्टः पाक्षिकशब्दनिर्देशो न तत्र चतुर्दशीशब्द इतिगाथार्थः॥६२॥ अथ पाक्षिककृत्योपलक्षितचतुर्दशीश-||2|
पूर्णिमाब्दप्रतिपादकग्रन्थसम्मतिप्रदर्शनाय गाथामाह
पाक्षिकआवस्सयचुण्णीए महानिसीहे अ पक्रवचुण्णीए । पक्खिअतवपमुहेहिं जुत्तावि चउद्दसी वुत्ता ॥३॥ प्रतिषेधः
श्रीआवश्यकचूर्णी श्रीमहानिशीथे पाक्षिकचूर्णौ च पाक्षिकतपःप्रमुखैर्युक्ता,अपिरेवार्थे युक्तैव,चतुर्दशी 'वुत्त'त्ति उक्ता, | तथाहि-"अट्ठमिचउद्दसीसु अरहंता साहुणो अ वंदेअबा" श्रीआवश्यककायोत्सर्गनियुक्तिचूर्णी, तथा 'संते बलवीरिअपुरिसक्कारपरक्कमे अट्ठमिचाउद्दसीणाणपंचमीपजोसवणाचाउम्मासिए चउत्थछट्टछट्टे न करिज्जा पच्छित्तं"ति श्रीमहानिशीथेऽध्ययने,तथा "इच्छामि खमासमणो! पिअं च में इत्यादि,गुरू भणइ-एअंपोसहिअत्ति अट्ठमिचउसद्दसिउववासकरणं इति पाक्षिकचूर्णी, तथा विक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सर४७७संजातेन श्रीधनेश्वरसूरिणा श्रीशत्रुञ्जयमाहात्म्ये तृतीयसर्गे चतुदश्यामेव पाक्षिकमनादिसिद्धमुक्तं,तथाहि-"यावजीवं विशेषेण, सोऽष्टमी च चतुर्दशी । प्रत्याख्यानपौषधादितपसाऽऽराधयत्यलम् ॥१॥ तथा-"स चाष्टमीचतुर्दश्योः,पर्वणोस्तपसः क्वचित् । चाल्यते निश्चयान्नैप, कृतयत्नैः सुरैरपि ॥१॥ तथा-'जगौ नृपतिरप्येवं, शृणु रम्भे! महाव्रतम् । चतुर्दश्यष्टमीपर्व,तातेनोक्तं समस्ति नः॥१॥' तथा 'त्रयोदश्यां च सप्तम्यां, लोकवोधाय भामिनि ! । अयं | हि पटहोद्घोषो, मदादेशात्प्रजायते ॥१॥ चतुर्दश्यष्टमीपर्व, त्रैलोक्ये देवि ! दुर्लभम् । करोति यो जनो भक्त्या, स याति परमं | पदं ॥२॥ तथा-अष्टम्यां पाक्षिके पक्षिमृगसिंहादिशावकाः । अप्याहारं न गृहणन्ति, येऽर्हद्धर्मेण वासिताः ॥१॥ तथा-चतु| ईश्यष्टमीपर्व,दढधर्मः स धर्मवान् । नित्यमाराधयामास, श्रीयुगादिजिनानिवत् ॥१॥ इत्यादयोऽनेके श्लोका भिन्नाधिकारप्रतिबद्धाः, ॥१७९॥