SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥ १७७॥ जत्थ य पखिअसद्दो चउद्दसिसदो न तत्थ निद्दिहो । निअयतवायभिहाणे अण्णुष्णं तेण पज्जाओ ॥ ६० ॥ यत्र च व्यवहारावश्यकचूर्ण्यादौ पाक्षिकशब्दस्तत्र चतुर्दशीशब्दो नास्ति, चकाराद्यत्र चतुर्द्दशीशब्दो न तत्र पाक्षिकशब्दः, कुत्र इत्याह- 'निअय'त्ति नियततपआद्यभिधाने, चतुर्यादिनियततपोवक्तव्यतायामित्यर्थः तेन कारणेन 'अण्णुष्णं 'ति पाक्षिकचतुर्दशीशब्दयोरन्योऽन्यं - परस्परं भावनिर्देशात् पर्यायः - पर्यायता इति गाथार्थः ॥ ६० ॥ अथ पूर्णिमा पाक्षिकं न भवतीत्यत्र युक्तिमाह चउमासपुण्णिमा तिगमुवइटुं बीअअंगि लेवस्स । एवं चेव विवेगो चउदसिसद्दमि नो दिट्ठो ॥ ६१ ॥ द्वितीयाङ्गे—–सूत्रकृदङ्गनाम्न्यङ्गेऽर्थात्तद्वृत्तौ लेपस्य - लेपनाम्नः श्रावकस्यार्थात्तदधिकारे चतुर्मासकपूर्णिमात्रिकमुपदिष्टं-कथितम्, 'एवं चेव'त्ति एवं प्रकारेण चतुर्दशीशब्दे विवेकः - पृथक्करणं न दृष्टः क्वाप्यागमे, एताश्चतुर्द्दश्यश्चतुर्थादितपोनियता इत्यादि| रूपेण न दृकूपथमागताः, तस्मात्पूर्णिमायां पाक्षिककृत्यं चतुर्थतपः पाक्षिकातिचारालोचनादिकं न भवतीत्यर्थ इति गाथार्थः ॥ ६१ ॥ अथ येषु ग्रन्थेषु पाक्षिकशब्दस्तेषु च न चतुर्द्दशीशब्दस्तन्नामग्राहमुपदर्शयन्नाह - ववहारवित्तिचुणीपीढि तह निसीहभासमाईसुं । जिणबिंबसाहूवंदणुवलिखिअं पखिअं भणिअं ॥ ६२ ॥ व्यवहारवृत्तिचूर्ण्योः पीठे तथा निशीथभाष्यादिषु 'जिनविम्ब साधुवन्दनं' चैत्यपरिपाटी साधुवन्दनं च, उपलक्षणाच्च चतुर्थतपः | पाक्षिकप्रतिक्रमणं च, तैरुपलक्षितं चिह्नीकृतं पाक्षिकनाम्ना पर्व दिनं भणितं - तीर्थकृदुपदिष्टं, तथाहि -“किइकम्मस्साकरणे काउस्सग्गे तहा अपडिलेहा । पोस हिअतवो अ तहा अवंदणे चेइसाहूणं ॥ | १ || " तत्र पोसहिअतवोत्ति पदं व्याख्यानयति- चउत्थछट्ठम करणे अट्ठमि पूर्णिमा पाक्षिक प्रतिषेधः ॥ १७७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy