________________
श्रीप्रवचनपरीक्षा
३ विश्रामे
॥१७६॥
G
'शासनसंकेत : ' क्षायिकादिभाव सङ्के तवज्जनप्रवचन सङ्केतोऽनादिसिद्धो ज्ञातव्यः, न पुनश्चतुर्थ्यां पर्युषणानयनवत् केनचिदाचार्येण | प्रवृत्या नियमितः, क्वापि प्रवचने तथानुपलम्भाद्, यञ्चाचार्येणापि प्रवर्त्तितं तीर्थसम्मतं च तत्क्कापि प्रकरणादिप्रवचने प्रतीतमेव | लभ्यते, यथा निशीथचूर्णिठाणावृत्तिकालकाचार्यकथाप्रभृतिषु श्रीकालकसूरिणा पञ्चमीतश्चतुर्थ्यां पर्युषणापर्व्व प्रवर्त्तितं । तथा " तवसेण य चउम्मासिआणि चउदसीए आयरिआणि, अण्णह आगमुत्ताणि पुण्णिमाए "त्ति इत्यादिवचसा चातुर्मासिकं चतुर्द्दश्यामाचरितमित्युपलभ्यते, न पुनः क्वापि तव सेण य पक्खिआगीत्यादि, यत्तु क्वापि ठाणावृत्तौ 'तवसेण पक्खियाइणि चउद्दसीए' | इत्यादि लिखितं दृश्यते, तत्र राकारक्तेन केनचित्पाठः परावृत्य लिखितो, जीर्णादर्शेषु तथानुपलम्भादित्याद्यस्मदीयचिरन्तनाचा| यैरपि गुरुतत्त्वप्रदीपादौ ज्ञापितमस्ति, तत्साक्षिकास्तु धर्मोपदेश मालावृत्तिः श्रीकालकाचार्यकथाः सर्वा अपि, यतस्तासु | ताडीयपुस्तक लिखितासु चिरन्तनासु पत्तनीयपुस्तकभांडागारसंबन्धिनीषु बह्वीषु “तवसेण य चउम्मासिआणि चउदसीए आय| रिआणी ति लिखितमस्ति, किंच पाठपरावृत्तेर्व्यञ्जकमपि " अण्णह आगमुत्ताणि पुण्णिमाए" नि पदमेव, यतो यदेवागमे पूर्णि| मायामुपलभ्यते तस्यैव चतुर्द्दश्यामानयनं युक्तं यथा पञ्चमीतश्चतुर्थ्यां पर्युषणानयनम्, आगमे च पूर्णिमायां चतुर्मासकस्यैवोप| लम्भो, न पुनः पाक्षिकस्य, यतः 'से णं लेवए गाहावई' इत्यादिद्वितीयाङ्गसूत्रस्य वृत्त्यैकदेशे “तथा पौर्णमासीषु च तिसृष्वपि | चतुर्मासकतिथिष्वित्यर्थः” इत्यग्रेतनगाथायां सम्मतितया वृत्तौ वक्ष्यतेऽत्र, यदि पूर्णिमायां पाक्षिकमभविष्यत्तर्हि पूर्णिमात्रिकं वृत्तिकारो नाग्रहीष्यत्, सकलेऽप्यागमे चतुर्मासकपूर्णिमाव्यतिरिक्तपूर्णिमासु चतुर्थतपोऽपि व्यक्त्या नास्तीति सूक्ष्मधिया पर्या| लोच्यमितिगाथार्थः || ५९ || अथ चतुर्द्दश्यां पाक्षिकमित्यत्र चतुर्द्दशीपाक्षिकयोः परस्परं पर्यायतायां हेतुमाह
|
पूर्णिमापाक्षिकः प्रतिषेधः
॥१७६॥