________________
तिलकाचायतिरस्कारः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६९॥
ANIMBUPAILIMPARAN
श्राविकया क्वापि देवेनेत्याद्यनियतं वचो भणित्वाऽपि 'न्हायविलित्तु चंदणिणु' इत्यादि दोधिकयोक्तलक्षणः श्रावक एव प्रतिष्ठां| करोतीतितिलकाचार्यवचो गईभीक्षीरपानकल्पं तच्छ्रोतृणामिति बोध्यमितिगाथार्थः ॥५०॥ अथ तिलकाचार्यविकल्पितप्रतिष्ठाकल्पस्य मूलमुद्भाव्य दूषयन्नाह
दोहगतिगमुवजीविअ पइट्टकप्पो कुवखतिलगेण । रइओ पुवायरिएवयणविरोहो महामोहो ॥५१॥ 'दोधकत्रिकं' 'न्हायविलित्तु चंदणिणु गंधसुगंधिअदेहु । परिहाविअ सिअसदसजुअल गुणगणरयणह गेहु ॥१॥ इत्यादि प्रागुक्तं दोधकत्रिकं तिलकाचार्याभिप्रायेण महाशास्त्रं तदुपजीव्य-तच्छरणीकृत्य तिलकाचार्येण प्रतिष्ठाकल्पोरचितः, कीदृशः?पूर्वाचार्याणां-श्रीहरिभद्रसूरिप्रभृतीनां वचनानि-तत्कृतप्रतिष्ठाकल्परूपाणि तैः सह विरोधो यत्र स तथा, एकार छन्दोऽनुवृत्या अलाक्षणिको बोध्यः, यत एवं तस्मात् कीदृशो?-महामोहो-महान्-अनन्तसंसारहेतुत्वात् गरीयान् मोहो-मिथ्यात्वमोहनीयं यस्माद्, यद्वा महामोहः-अभिनिवेशमिथ्यात्वं,तद्धेतुत्वात् तत्कृतप्रतिष्ठाकल्पोऽपि महामोह एवेतिगाथार्थः॥५१॥ अथ दोधकत्रिकमधिकृत्यापि कीदृशस्तिलकाचार्य इत्याहदोहगतिगपरमत्थं न मुणइ कह मुणइ गणहराण वयं । रयणायरंगमियरं उस्सग्गववायरयणाए ॥५२॥
दोधकत्रिकपरमार्थ तिलको न जानाति, तथाहि-प्रतिष्ठाकारस्तावत्कृतस्नानश्चन्दनादिविलेपनेन सुगन्धीकृतदेह इत्यादिविशेषणविशिष्टः श्रावक एव संभवति, न पुनः मूरिः,तस्य स्नानादेनिषिद्धत्वाद् ,यदागमः-'वयछकं कायछक मित्यादि,सिद्धान्तबाधापच्या न साधुः प्रतिष्ठाकारः, किंतु श्रावक एवेति तिलकाचार्यस्य कुविकल्पना, सा चैवं तिरस्करणीया-भो तिलकाचार्य ! सामान्यविधिना
चा
॥१६९॥