________________
तिलकस्यान्यथावा
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६६॥
दिता
र्थता भाव्या, अन्यथा “तदा नदीप्रवाहेण, पाटिताद्विकटातटात् । युगादिदेवप्रतिमा, प्रकटाऽभूत् प्रभावयुक् ॥१॥ तां प्रेक्ष्य हर्षयुक्तोऽसौ, स्नपयामास वारिणा । पीठं कृत्वा मृदोतुङ्ग, स्थापयामास तत्र ताम् ॥२॥" इति श्रीविमलनाथचरित्रे, अत्र | तिलकाचार्याभिप्रायेण स्थापयामासेति प्रतिष्ठां कृतवानिति वक्तव्यं स्यात् , तच्चाध्यक्षबाधितं, स्वकीयाग्रहं विमुच्यालोचयन्तु, तिलकाचार्यः प्रदर्शितासु उपमितौ 'रत्नचूडविद्याधरः कथयती'त्यादि, "यावद्विद्याधराणामवतारणार्थ महाभवनं विधाय प्रतिष्ठितं तेन भगवता युगादिदेवस्य विम्बं" ठाणाविवरणे "इअ चिंतिऊण तो सा गंतूण य सरवर निययदेहं । पक्खालिअ संठविआ पडिम ता वंदए देवं ॥१॥" हरिवंशग्रन्थे इत्यादिरूपासु सम्मतिषु क्वापि विवादापनायाः प्रतिष्ठायाः सूचकमभिमन्त्रितवासक्षेपमन्त्रन्यासादिकं किमपि विद्यते न वा ?, प्रथमोऽध्यक्षबाधितः, द्वितीये प्रतिष्ठैव तत्र नावबुद्ध्यते, तदवबोधकलिङ्गाभावात् , तर्हि कुतस्तत्राकाण्डकूष्माण्डकल्पः श्रावकस्तत्कर्ता प्रविष्टः, तथा च संपन्नम् 'अखाते तटाके मकरप्रवेश' इति लोकाभाणक इति, अस्माभिस्तु "मुणिकजं पुण हरिभद्द" इत्यादिचतुर्दशगाथायां प्रागुक्तायां सम्मतितयोपदर्शितासु सर्वास्वपि कपिलकेवलिना श्रीनाभसूरिप्रभृतिभिरभिमन्त्रितवासक्षेपादिकं प्रतिष्ठासूचकं विद्यत एव, तेन तिलकाचार्यप्रदर्शिताः सम्मतयो देवतायत्तप्रलपितकल्पा बोध्याः इति सामान्यतस्तिलकाचार्यस्तिरस्कृत इति गाथार्थः ॥४९॥ अथ व्यक्त्याऽपि किश्चिदाहकत्थवि कलंकदाणं कथवि सद्दाणमण्णहा लवणं । कत्थवि पवयणपरमत्थभावसुण्णंपि तिलगवयं ॥५०॥
तिलकाचार्यवचः क्वचित्कलङ्कदानं-प्रवचनस्य कलङ्कदानात्मकं, क्वचिच्छब्दानां प्रतिष्ठास्थापनादिलक्षणानामन्यथा लपनम्-अपर्यायभूतानामपि पर्यायरूपतया प्रलपनं, क्वचित्परमार्थभावशून्यं-पूर्वापरसंबन्धपर्यालोचनविकलमपीति, प्रतिष्ठाकल्पाभासे इति