SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Nimur प्रतिष्ठाशब्दार्थः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६५॥ NDHAI HALOPINI वयतीतिणिगन्तप्रयोगेणाप्यणिगन्तप्रयोगः शङ्कते इति तुल्यार्थः, न पुनरेकधातुप्रयोगेऽपि णिगन्ताणिगन्तयोरविशेषः, प्रयोजकप्रत्ययस्य वैयर्थ्यांपत्तेः, नन्वेकधातुप्रयोगेऽपि क्वचिद्भिनार्थानमिधानं यथा स्थापनशब्दस्य पर्यायः प्रतिष्ठेतिचेत् , मैवं "उपसर्गेण धात्वर्थो, बलादन्यत्र नीयते" इति वचनात् प्रतिना सोपसर्गस्य धातोः केवलधात्वपेक्षया भिन्नार्थाभिधायकत्वेन वस्तुगत्या मिन्नत्वाद् , अत एवात्मनेपदिकः परस्मैपदिको वा धातुःप्रयोजनणिगन्तप्रत्ययप्रयोगादुभयपदिको भवति, वस्तुगत्या स्थापनशब्दो लक्ष्यवस्त्वाकृतिमात्राभिधायकः, तथाहि “नामजिणा जिणनामा ठवणजिणा पुण जिणिदपडिमाओ । दवजिणा जिणजीवा भावजिणा समवसरणत्था ॥१॥ इति (चैत्यवन्दनभाष्य) तथा “नामठवणाणं को पइविसेसो?, नामं आवकहिअं, ठवणा इत्तरिआ वा होज"त्ति तथा "नाम ठवणादविए खित्तदिसातावखित्तपण्णवए। सत्तमिआ भावदिसा होइ अट्ठारसविहा उ॥१॥" ति । क्वचि भावादिस्थापनारोपणेऽपि, यथा "उम्मग्गनिवारणयं सम्मग्गट्ठावणं च भवाणं । एमाई जं विहि अणुमोएऽहं तमप्पहि॥१॥" | (आराधना) इति । ननु क्वचित्स्थापनाशब्दस्य पर्यायः प्रतिष्ठेत्युपलभ्यते तत्र किं कर्तव्यमितिचेच्छृणु, क्वचित्कथञ्चिद्युत्पत्याऽप्येकार्थतां विभाव्य छन्दोऽनुवृत्त्या धर्मधर्मिणोरभेदोपचारमङ्गीकृत्य वा ग्रन्थकाराणां तथा प्रयोगसंभवेऽपि सर्वत्रापि स्थापनाशब्देन प्रतिष्ठा वाच्येति न पूत्करणीयम् , अनन्तरोक्तयुक्त्या तिलकाचार्यस्य गलपादुकान्यायोत्पत्तेः, क्वचित्कस्यचिच्छब्दस्य कश्चित्पर्याय दृष्ट्वा सर्वत्रापि तथा पर्यायकरणे "पतङ्गो द्योतयन विश्वं, कस्य नानन्दकारणम् ?" तथा "प्रदीपरूपमालोक्य, पतङ्गो नाशमाश्रित" | इत्युभयत्रापि पतङ्गशब्दस्य सूर्यपर्यायकरणप्रसक्तेश्च, तस्मात्वापि कविप्रयुक्तानां खगपतङ्गादिशब्दानां सूर्यादिशब्दैः पर्यायं दृष्ट्वा | | सर्वत्रापि तथा पर्यायकरणाभाववत् स्थापनाशब्देन सर्वत्रापि प्रतिष्ठापर्यायो न युक्तः, प्रयोगानुसारेण पतङ्गादिशब्दवदस्याप्यनेका A AamgamIIRAMAN ॥१६५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy