________________
प्रतिष्ठाशब्द
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१६४॥
NAGARIHARIlmailILARAKillinal Antimallar
कारात्-प्रकरणविशेषादर्थप्रतिपत्तिः-अर्थाभ्युपगमो भवति,तत्र दृष्टान्तमाह-'जहे त्यादि,यथा लष्टिप्रतिष्ठिता ध्वजा, लष्टौ-दण्डे प्रतिष्ठिता-न्यस्ता यथा ध्वजेत्यर्थः। यदागमः-"तओ पुणो जच्चकणगलद्वियपइडिसमूहनीले'त्यादि श्रीपर्युषणाकल्पे, तथा | "भरहंतपइट्ठाए महुरानयरीए मंगलाई तु । गेहेसुचच्चरेसु अछन्नवइगामअद्धेसु॥१॥त्ति महुराए नयरीए घरे कए पढमं अरहंता पइट्ठविजंति मंगलनिमित्तं, जइ न करेति घरं पडइ"त्ति, अत्र ब्राह्मणक्षत्रियादिगृहेषु न्यसनमात्र एव प्रतिष्ठाशब्दार्थः, एतेन प्रतिष्ठा१प्रतिष्ठानर प्रतिष्ठापन३ संस्थापन४ स्थापना५ दिशब्दानामेकार्थतां विकल्प्य परस्परपर्यायवाचिता तिलकाचार्येण प्रतिपादिता साऽपि निरस्ता, प्रतिष्ठादिशब्दानां पर्यायवाचित्वेन विपश्चित्प्रयोगादर्शनात् । किंतु 'अधिकारवशादर्थप्राप्ति'रितिन्यायात् क्वचित्पति|ष्ठाशब्दः शोभावाची, यथा “प्रतिष्ठा प्रापितः शिष्यो, गुरुणा गुरुविद्यया" क्वचिदाधाराधेयसंवन्धवाचको यथा-"गुरुरासने प्रतिष्ठाय, शिष्यानध्यापयत्यमन्" तथाऽऽगमप्रयोगोऽपि-"तओ पुणो जच्चकणगलट्टिपइद्विअ"त्ति, तथा णिगन्तप्रयोगेणापि,यथा 'गपूजयेत् प्रतिष्ठाप्य, चैत्येऽर्हत्प्रतिमा सुधीः।" क्वचिच्च प्रतिष्ठाप्यविषयकाभिमन्त्रितवासक्षेपमन्त्रन्यासादिक्रियाविशेषवाचको, | यथा "सूरिः प्रतिष्ठां कुर्यादित्यादि,एवं प्रतिष्ठानशब्दोऽपि प्रायः स्थित्यर्थाभिधायकः, प्रतिष्ठापनशब्दस्तु णिगन्तप्रयोगात्स्फुट |एव भिन्नार्थः, नचैवं प्रतिष्ठाप्रतिष्ठानशब्दयोः प्रतिष्ठानमिति निरुक्तेरभेदः, प्रतिष्ठन्तं प्रयुक्ते इति प्रतिष्ठापनमिति निरुक्तेरेव | भेदस्तेन प्रतिष्ठापनशब्दो णिप्रत्ययनिष्पन्नत्वेन प्रतिष्ठाप्रयोजककतक्रियाविशेषवाचकः,एतेन 'जं न परिद्ववि' मित्यस्य शब्दस्य यन्न परित्यक्तमितिपर्यायो वृत्तिकृता दत्तो न पुनः परित्याजितमिति सम्मतिः प्रतिष्ठानप्रतिष्ठापनशब्दयोरेकार्थताभिधानाय तिलकाचार्येण प्रदर्शिता साऽपि निरस्ता, धात्वन्तरमासाद्य णिगन्ताणिगन्तप्रयोगयोस्तुल्यार्थाभिधायकत्वस्य दृष्टत्वाद् , यथा संभा
INFINAARIFallIAlamIIRAMAY