________________
भीप्रवपनपरीक्षा
| तिलकी
विश्रामे
॥१६॥
वंतु। जो नवि नाहिअमयकलिऑन कुदंसण दीसंतु ॥३॥ तत्र 'वयछक्क कायछक्कं अकप्पो गिहिमायण। पल्लिअंक निसिजाए सिणाणं सोभवजणं ॥१॥ इत्यागमात साधूनां स्नानं शरीरे चन्दनविलेपनं गन्धैः सुगंधीकरणं शोभाङ्गत्वान्नैव युज्यते, तथा "आयपमाणा कप्पा अड्ढाइजा य वित्थडा हत्था" इत्यागमेषु प्रमाणोपेतवस्त्रपरिधानेन साधोरचेलकत्वस्थापनादखण्डसदशव| सपरिधानमपि न युज्यते । तथा-"जत्थ हिरण्ण सुवणं हत्थेण पराणयंपि णो छप्पे । कारणसमल्लिअंपिहु गोअम ! गच्छं तयं||N
भणिमो ॥१॥ इत्यागमेन साधोः सुवर्णस्पर्शनमात्रमपि निषिद्धं,तत्कथं कङ्कणसूत्राद्यलंकारमङ्गीकरिष्यति?, अतः प्रतिष्ठाकारलक्षगं | सर्वमपि साधोविरुद्ध्यते, श्रावकस्यैवोपपद्यते, ततस्तेनैव प्रतिष्ठा कार्या, अत्र चार्थे अनुमिमीहे--जिनबिम्बप्रतिष्ठा श्रावकेणैव कर्तव्या, द्रव्यस्तवरूपत्वात्पुष्पपूजादिवद्, द्रव्यस्तवत्वं चास्याः "जिणभवणबिंबठावणजत्तापूआइ सुत्तओ विहिणा। दवत्थउत्ति | णे भावत्थयकारणत्तेणं ॥१॥" इति वचनात् , तथा सावद्यरूपत्वादितिहेतोः जिनप्रतिष्ठा श्रावकेणैव कार्या,सावद्यरूपत्वं चास्या एवं-शुद्धिं कृत्वा प्रतिष्ठाकारश्चन्दनमभिमन्व्य स्वहस्तेन बिम्बस्य विलेपनं करोति, अभिमन्त्रितधूपोत्पाटनं स्वहस्तेन करोति, पुष्पवासयुक्ताभिमन्त्रितमदनफलबन्धनं वहस्तेन करोति, प्रत्यग्रवस्त्रेण प्रतिमाच्छादनं तदुपरि चन्दनच्छटामोचनं पुष्पक्षेपं नानागन्धयुक्तसप्तधान्यक्षेपणं च स्वहस्तेन कगेति, ततो लग्नसमये त्रिपञ्चसप्तवारान् सर्वाङ्गं प्रतिमा स्पशेत् , पुनर्वासनिक्षेपणं पुष्पारोपणं च प्रतिष्ठाकारः स्वहस्तेन करोति इति सर्वप्रतिष्ठाकल्पेषूक्तत्वादिति कुपाक्षिकतिलकतिलकाचार्यः स्वमतानुरागेण श्रावकप्रतिष्ठाव्यवस्थापनाय यत्तत्प्रलपन्नुन्मत्तकेलिसदृशी प्रतिष्ठाकल्पाभासपीठिकामुत्सूत्रविड्भृतमुखचञ्चूनां चिरंजीविनां विश्रामकृते कृतवान्, तत्र सामान्यतस्तावदित्थमभिधातव्यं
॥१६॥