SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ।। १५८।। | रितवाणप्रहतो विगतपक्षोऽसमर्थः च्युतप्राणो वा भवति, तथा त्वदनुमानपक्षी तीर्थप्रेरितानुमानशरप्रहतो बोध्यः, यत एवं ततो| ऽस्माकम् - अस्मत्संबन्धी त्रैलोक्य पूजाकारणत्वादितिहेतुबाणो जयतु, किंलक्षणः १ - सिद्धान्तपक्षयुक्तः - अनेकप्रतिष्ठाकल्पादिप्रवचनानुयायी, अपरोऽपि बाणः सिद्धाः - परिकर्म्मणा संस्कृताः येऽन्ता - अन्तिमावयवास्तेषु पक्षाः - पतत्राणि यत्र स तथा, पतत्रमन्त| रेण बाणस्याप्यगतेः, त्वदनुमान पक्षिहन्ता सिद्धान्त क्षयुक्तोऽस्मदीयो बाणो जयत्विति समुदायार्थः || ४३ || इति चन्द्रप्रभाचार्य - | तिलकाचार्य विरचितान्यनुमानानि हेत्वाभासग्रस्तानि न श्रावक प्रतिष्ठाव्यवस्थापनाय समर्थानीति ज्ञापयित्वा साधुप्रतिष्ठा व्यवस्थापनायानुमानानि आगमसम्मतयश्च प्रदर्शिताः॥ अथ कालानुभावात् केषांचिन्मतिमांद्यात्तिलकाचार्यकृतप्रतिष्ठा कल्पमालोक्य शङ्कोत्पद्यते तत्पराकरणाय गाथामाह जो 'पुण तिलगायरिओ कुवकुखमुकुखो मयाणुरागण । लविओ कप्पाभासे अमुणंतो धम्मपरमत्थं ॥४४॥ यः पुनस्तिलकाचार्यः कुपक्षमुख्यो महाऽज्ञानान्धः स्वमतानुरागेण स्वमतदाढर्थहेतवे एव ग्रन्थकर्तृत्वाच्छेषकुपाक्षिकापेक्षया प्रसिद्धः, यद्वा कुपाक्षिकाणां मध्ये मूर्खः, मूर्खत्वं प्रतिष्ठाकल्पादिग्रन्थरचनायां स्वयमनुमानादिप्रयोगकरणाशक्तः परकृतानामनुमानप्रयोगाणां दूषणभूषणान्यजानन्नेव कामताकर्षक चन्द्रप्रभाचार्येण क्रोधाविष्टेन श्रावक प्रतिष्ठाव्यवस्थापनायोद्भाविता ये हेत्वाभासास्तानेवान्धयुद्भवन्निजचातुर्याविष्करणाय निजकृतितयाऽलिखिष्यत्तर्हि मूर्खत्वमप्यस्य नाज्ञास्यद्, यतः - 'मुकखो ताव महग्घो मोणं काऊण सयलमज्झमि । जाव न खसरखसप्पुसद्द - फुप्फुसखसफसं कुणइ ॥ १ ॥ "त्ति, नचैवं विपश्चितां गतिः, यदास्माकीनेन पूर्वजेन क्रोधानाभोगादिना परवशीभूतेन यत्किंचित्कृतं कारितं प्रकाशितं वा तत्सर्वमपि प्रमाणीकृत्य विपश्चित्पर्षदि व्यवस्थाप्यते, तद्व्यवस्थापने तिलकीयः कल्पाभासः ।। १५८।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy