SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तिलकानु मानवापः भीप्रकपनपरीक्षा विश्रामे | ॥१५७॥ AUR तिलकाचार्योदावितस्यानुमानस्य तद्विपरीतसाधकं तत्प्रतिपक्षभृतमनुमानमाह जिणपडिमाण पइहा कायदा मुनिगुरूहिं जगसक्खं । तेलु कपूअकारणभावा गणहरपइटव्व ॥४२॥ जिनप्रतिमानां प्रतिष्ठा जगत्समक्षं मुनिगुरुभिः कर्त्तव्या,अनापवादिकत्वे सति त्रैलोक्यपूजाकारणभावात् त्रैलोक्यपूजाहेतुत्वाद्गणधरप्रतिष्ठावद्-गणधरपदस्थापनावदित्यनुमानप्रयोगः, व्याप्तिग्रहस्त्वेवं-यद्यत्रैलोक्यपूजाकारणं तत्तन्मुनिगुरुणैव विधेयं, यथा गणधरपदप्रतिष्ठा, तत्र हेतुसाध्ययोर्द्वयोरपि सत्चात् , प्रकृतसाध्यसिद्ध्यर्थ मुनिगुरुः-मूरिः दृष्टान्ते तीर्थकृदिति, न पुनमुहिकृत्यं त्रैलोक्यपूज्यत्वहेतुर्भवति, यत्तु क्वचिच्चरितानुवादे तथा दृश्यते तद्दिव्यानुभावाद्यात्मकमौपाधिकमेवावगन्तव्यं, दिव्यानुभावस्तु विधिवादे विचारक्षोदक्षमोन भवति,यथा अविरतदेवतापितलिङ्गःसाधुलिङ्गधारी कश्चित् साधुत्रैलोक्यस्याप्याराध्यो भवति, न तथा द्वादशव्रतधारकश्रावकापितलिङ्गात्साधुः स्यात् , तथाऽनादिसिद्धजगत्स्वभावात् ,जगत्साक्षिकमितिपदेन प्रतिष्ठाकृत्यं न रहोवृत्या विधेयं, किंतु राजामात्यादिसमस्तमहर्द्धिकजनसमक्षं,यतः समस्तजनसाक्षिकं प्रतिष्ठाकृत्यं समस्तस्यापि लोकस्याराध्यत्वेनामिमतं स्यात् , तत्रापि साधुना कृतमविवादेनैव समस्तानामपि सम्मतं, साधोः समस्ताभिमतत्वादितिगाथार्थः ॥४२॥ अथ सत्प्रतिपक्षितं तिलकाचार्योद्भावितमनुमान कीदृशं जातमित्याहपडिवक्खऽणुमाणसरप्पहओतुह हेउसउणि गयपक्खो । सिद्धंतपक्खजुत्तो हेउसरो जयउ अम्हाणं ॥४३॥ प्रतिपक्षानुमान-परोद्भावितानुमानसाध्याद्विपरीतसाधकानुमानं तदेव शरो-बाणस्तेन प्रहतः-आहतः तुहे'ति-हे तिलकाचार्य! तब त्वदीयो हेतुः सावद्यत्वादितिरूपस्तद्रूपः शकुनिः-पक्षी, किंलक्षणो?-तपक्षः-छिन्नपक्षो जातः, अन्योऽपि पक्षी परप्रयोगने m MAN % | ॥१५॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy