________________
MINSimonialI
n
IA
भीप्रव- तसाद् यदि यथेत्यध्याहार्य यथा महाव्रतेषु अणुव्रतादिगृहिधर्मः संक्रन्तस्ता-तर्हि तथेत्यध्याहार्य तथा पञ्चममहाव्रते पूजा तिलकाचनपरीक्षा || किं न संक्रान्ता ?, अपितु संक्रान्तेत्यर्थ इतिगाथार्थः ॥४०॥ अथ द्रव्यपूजा यथा पश्चममहाव्रते संक्रान्ता तथा दर्शयन्नाह
चायखंडनं ३विश्रामे
. आणाइ दव्वपूआ दव्वच्चाएण देसरूवेण । सो सम्वदम्वचाए जिणआणाए समोअरई ॥४१॥ ॥१५६॥
द्रव्यपूजा हि दिव्यकुसुमचन्दनादिद्रव्यसमुदायसाध्या, सा चाज्ञया देशरूपेण द्रव्यत्यागेन भवति, देशतो द्रव्यव्ययेनैव | N | स्यादित्यर्थः, आज्ञापि तीर्थकृदुपदेशरूपा,न पुनः कुसुमादिद्रव्यव्ययमात्रेण, उत्सूत्रभाषिणामपि तीर्थकृत्पूजाकृतिप्रसक्तेः, नचैवं, | यतो द्रव्यपूजा हि भावपूजाकारणं-भावस्तवहेतुः, भावस्तवो हि चारित्रं, यदुक्तं-"जिणभवणविंबठावण जत्ता पूआ य सुत्तओ | विहिणा । दवत्थउत्ति णेअं भावत्थयकारणत्तेणं ॥१॥ इतिपश्चाशके (२४७) तच्चोत्सूत्रभाषिणामनन्तेनापि कालेन दुरापम् ,अनन्तकालस्थितिहेतुस्तु कुपाक्षिकाणां पूजापि भगवति उत्सूत्रसंयुक्ता,आस्तां कुसुमादिपूजा,प्रव्रज्याऽप्यनन्तसंसारहेतुस्तथावस्तुखभावाद्, युक्तयस्तु प्रथमविश्रामे तीर्थस्वरूपव्यवस्थापनावसरे दर्शिता, एतच जमाल्यादीनामेवेति प्रवचने प्रतीतमेतत् , कुमतं हि क्रिया| बलेन व ते इति पूजादिक्रियैव चैषामन्येषां वाऽनुमोदनादिविषयत्वेनानर्थहेतुरपि, तस्मात्कुमतं यथार क्रियाशिथिलं तथा२ प्रवच
नस्य तस्य च हितमेवेति मतिमता मन्तव्यं, स देशतो द्रव्यत्यागः, सर्वद्रव्यत्यागे "सबाओ परिग्गहाओ वेरमण"मितिजिनाज्ञयैव | सर्वपरिग्रहत्यागात्मके पञ्चममहाव्रते समवतरति, अयं भावः-यदि साधूनां कुसुमादिद्रव्यस्तवो निर्जराङ्गमभविष्यत्तर्हि सर्वज्ञाः सवेपरिग्रहत्यागं साधूनां नाकारयिष्यन् ,कारितवन्तश्च सर्वपरिग्रहत्यागंसाधूनामतः सर्वपरिग्रहत्यागान्तर्भूतोऽपि द्रव्यस्तवः पृथक् कियमाणस्तीर्थकृदाशातनवाज्ञाबाह्यत्वादितिगाथार्थः ॥४१॥ अथ प्रतिमाप्रतिष्ठा श्रावकेणैव कर्तव्या सावद्यत्वाद्रव्यस्तवपूजादिवदिति ॥१५६॥
MINISHADHARARIANTARAMMelina AllauriHIER
HINISARAIGAHILAINITAPAISE